न च नानैकत्वं जनकम् एकहेतुकत्वोपपत्तौ नानाहेतुकत्वे
कल्पनागौरवात् ॥
ननु संख्यापरिमाणादीनां न तावत्परिमाणं प्रति हेतुत्वम्, परिमाणमात्रेऽन्योन्यं व्यभिचारात् । नापि तव्घक्तिभेदं प्रति, आनन्त्यव्यभिचाराभ्यां दूषितत्वात् । अतोऽवान्तरजातिस्वीकारे विरुद्धयो: समावेशानुपपत्ते: । दृश्यते चोभयहेतुकत्वं यथा स-
न्यायलीलावतीकण्ठाभरणम्
त्यत आइ नचेति । किञ्च त्रसरेणौ तदवयवबहुत्वं वा महत्त्वमारभ्यतामणुत्वमेव वेत्यत्र लाघवमपि बहुत्वे प्रमाणसहकारि, किञ्च त्रसरेणुपरिमाणं नाणुपरिमाणजन्यं परमाणुत्वादित्यपि द्रष्टव्यम् ।
चतुर्विधमपि जन्यपरिमाणं संख्यापरिमाणप्रचयजन्यमिति मूलमाक्षिपति नन्विति । परिमाणत्वावच्छेदेन कारणतायां परस्परं व्यभिचारान्न कारणताग्रह इत्यर्थः । ननु प्रत्येकजन्ये परिमाणेऽपि वैजात्यमेव कल्पनीयमिति न व्यभिचार इति यदि, तदा द्वाभ्यामारब्धे तदुभयजातिसाङ्कमित्याह अत इति । ननु द्वाभ्यामारम्भ एव नास्तीत्यत आह दृश्यते चेति । समपरिमाणावयवद्वयारब्धापेक्षयाऽ-
न्यायलीलावतीप्रकाशः
नकं परिमाणप्रचयाजन्यमहत्वे अवयवबहुत्वेन कारणत्वकल्पनात् । त्र्यणुकपरिमाणासमवायिकारणताग्राहकं प्रमाणं बहुत्वमेव विषयीकरोति नाणुपरिमाणं तस्य प्रत्येकनिष्ठतया नानात्वेन गौरवादित्यन्ये । एवं व्घणुकपरिमाणं नाणुपरिमाणजन्यं परिमाणत्वादित्यपि द्रष्टव्यम् । तथापि नानेकत्वमेव परिमाणजनकमस्त्वित्यत आह नानेति ।
विरुद्धयोरिति । सङ्ख्यापरिमाणाभ्यामुसाभ्यामारब्धे परिमाणे परस्पराज्यताभाव समानाधिकरणयोः सङ्ख्यापरिमाणप्रयोज्यजात्योः सङ्कर स्यादित्यर्थः । न च तयोरसिद्धिरित्याह दृश्यते चेति । विलक्षणकारपाब्यङ्गया उभयारब्धपरिमाणे विलक्षणैव जातिर्नतु प्रत्येक कारणप्र-
न्यायलीलावतीप्रकाशविवृतिः
त्वकल्पनस्येति । बहुत्वे महत्त्वकारणताकल्पनस्येत्यर्थः । परिमाणनचयाजन्येति । भावमात्रेत्यर्थः । एवमिति । उक्तविपक्षबाधके सतीत्यर्थः ।