सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४४
न्यायलीलावती


रिमाणजनकत्वनियमे व्घणुकोच्छेदापत्तेः । संख्यापरिमाणयोरुभयोरपि तुल्यस्वे परिमाणानारम्भकरवे हेत्वभाव इति चेत् । न, बहुत्वस्य महस्वारम्भे क्लृप्तशक्तिकत्वात् अणुत्वस्य च परिमाणं प्रति उपाध्यन्त रानपेक्षेण [१] स्वरूपेणादृष्टशक्तिकत्वात् ।


न्यायलीलावतीकण्ठाभरणम्

णुकपरिमाणमेव विजातीयमपि महत्त्वं जनयतु, महत्त्वासमानाधिकरणसंख्याया अपि महत्त्वजनकत्वमत्रैव त्वयापि कल्पनीयमित्याशङ्कते संख्येति । बहुभिरारब्धे महत्त्वोत्कर्षदर्शनात् बहुवं महत्वं प्रत्यसमनायिकारणं क्ऌतं नाणुत्वमिति परिहरति बहुत्त्वस्येति । ननु यद्यणुत्वमात्रं न परिमाणकारणं क्लृप्तं, तथापि बहुत्व समानाधिकरणजन्या णुत्वेन महत्वं प्रति कारणत्वमिहैव कल्प्यतामित्यत आह उपाध्यन्तरेति । बहुत्वं चेदुपाधिस्तदा तदेव कारणमस्तु किमणुत्वेनेत्यर्थः । मनु तथापि किं बहुत्वेन त्रीण्येकान्येव त्रसरेणौ महत्त्वं जनयन्त्वि-

न्यायलीलावतीप्रकाशः

त्रसरेणोरण्यणुत्वेन सिद्धलाधनादिति भावः । सङ्ख्यापरिमाणयोरिति । यथा Sणुपरिमाणस्य महत्त्वजनकत्वं न दृष्टं तथाऽणुलङ्ख्याया अपि जनकत्ये वा न विनिगमकमित्यर्थः । तत्र विनिगमकमाह बहुत्वस्येति । नम्वणुत्व समानाधिकरणबहुत्वस्यापि कारणत्वमन्यत्र न दृष्टं, यदि च बहुत्वमात्रस्य तद्द्दष्टम् अणुत्वस्याऽपि परममहत्परिमाणातिरिक्तपरिमाणस्य दृष्टमिति तुल्यम् । मैवम् | त्र्यणुकमहत्वं हि नपरिमाणजन्यं सङ्ख्या प्रचयाजन्यमहत्वं प्रत्य वयव महत्वेन कारणत्वात्, नत्ववयवपरिमाणत्वेन परमाणुपरिमाणात् घणुके महत्वापत्तेः, नापि जन्यावयवपरिमाणत्वेन गौरवात्, नापि जन्याणुत्वेन तथाऽदर्शनात्, महत्त्वविशेषस्थानियतहेतुकता पत्तेश्च, महत्त्वान्तरजातिकल्पने च गौरवात, बहुत्वकल्पनस्य च प्रामाणिकत्वात, किन्त्ववयवबहुत्वं तज्ज-

न्यायलीलावती प्रकाशविवृतिः

मानलङ्ख्यापरिमाणारब्धस्यापि दृष्टान्ततेति ध्येयम् । अणुत्वस्यापीति । व्घणुकवृत्तिपरिमाणस्य परमाणुपरिमाणजन्यत्वे महत्वापत्ते रित्यर्थः । यद्वा अणुत्वस्य महत्वजनकपरिमाणत्वेन महत्त्वापत्तरित्यर्थः । बहु-


  1. ↑ नपेक्षस्येति मा० पु० पाठः ।