न्यमेवैतत् स्यादिति चेन्न । परिमाणस्य विजातीयात्म [१] प्रतियो
गिप्रकर्षजननविरोधात् अन्यथा महतामपि कचिदणुपरिमाणा-
रम्भकतापत्तेः [२] । ह्रस्वत्वस्य चामहद्वृत्तित्वेन महत्त्वानारम्भकत्वात् अणुत्ववत्, अन्यथाऽत्रापि तच्चतापत्तेः [३] । संख्यापि
तर्हि नारम्भिका तस्याः स्वाश्रय प्रकृष्टपरिमाणजनकत्वनिय
मादिति चेत् । न, परिमाणासमवायिकारणस्य स्वाश्रय प्रकृष्टप-
न्यायलीलावतीकण्ठाभरणम्
णवदित्यर्थः । ननु ह्यणुकत्रयवर्त्तिपरिमाणैरेव तदारभ्यतामित्याह परिमाणजन्यमिति । अणुश्वस्य महत्त्वारम्भकत्वविरोधात्रैवमित्याह परिमाण- स्येति । ह्रस्वत्वपरिमाणस्य अनम्युपगमेऽपि तस्य जनकत्वमाशंक्याद्द हस्वत्वस्येति । महत्त्व (समानाधिकरण परिमाणत्वेनाणुत्ववत् इस्व स्वस्यापि ह्यणुकवृ तेरनारम्भकत्वादित्यर्थः । महत्त्वासमानाधिकरणा संख्यापि कथं महत्वमारभताम्, आरम्भे वा त्रसरेणी प्रकृष्टमहत्व मे वारभेतेत्याह संख्यापीति । तर्हि परमाणुवृत्तिद्वित्व संख्यया ह्यणुकेऽत्य न्तमहत्त्वमारभ्येतेति ह्यणुकोच्छेदः स्यादित्याह परिमाणेति । तर्हि -
न्यायलीलावती प्रकाशः
रन्धमहत्त्वापेक्षया अवयवचतुष्टयारब्धमहत्वस्य दृष्टान्तता । परिमाणस्येति । परिमाणं परिमाणत्वव्याप्यजात्या सजातीयमेवारभत इति व्याणुपरिमाणेन व्यणुक महत्त्वं स्वविजातीयं प्रकृष्टं न जन्यत इत्यर्थः । ननु नेयं व्याप्तिः हस्वत्वेन महत्वारम्भात् इत्यत आह हस्वत्व स्येति । अमहद्वृत्तित्वेनेति । अमहद्वृत्तिपरिमाणत्वेनेत्यर्थः । अतो न ज्यणुक महत्त्वापत्तिरित्यर्थः । तस्या इति । समानपरिमाणत्रितयारन्धे सङ्ख्यायाः स्वलमानाधिकरणपरिमाणापेक्षयाऽधिकपरिमाणजननदर्शनादित्यर्थः । कचित्तथात्वेऽपि न नियम इत्याह परिमाणासमवायीति । यदीदृशी व्याप्तिः स्यात् तदा द्यणुकेन त्र्यणुकं महन्न जन्येत किस्वणुतममेव जन्यमिति न तज्जनकड्यणुकसिद्धिरित्यर्थः । नाप्यणुत्वं कार्याकार्यवृतीति प्रागुक्तानुमानात व्यणुकसिद्धि:, अणुत्रयारब्ध-
न्यायलीलावतीप्रकाशविवृतिः
वस्थ्यं, तथापि परिमाण प्रचयमात्राजन्यत्वं हेतौ विवक्षितमेवं च स