त्यस्थानवयाहित्वात् पूर्वापरतोदासीन द्वित्वविशिष्टत्वस्य सत्त्वात् । विशेषणज्ञानपूर्वकता तूत्तरत्र विशिष्टज्ञानस्य व्यवस्थापयिष्यते । अतीतगोचरद्वित्वाद्युत्पत्तौ का वार्ता ? न काचित् । कथं
तर्हि तद्व्यवहारः ? यथा गुणादाविति ब्रूमः । उपादानाभावस्यैव
बाधकत्वात् । एतेनाऽनागतव्यवहारोऽप्युक्तः ॥ इति संख्या ॥
त्र्यणुकपरिमाणं संख्याजन्यं परिमाणप्रचयानपेक्षत्वे सति परिमाणत्वात् सर्वसिद्ध [१] संख्याजन्य परिमाणवत् । परिमाणज-
न्यायलीलावतीकण्ठाभरणम्
षणविशेष्योभय सन्निकर्षाधीनं, विशेषणसन्निकर्षश्च प्रकृते नास्तीत्यत आह विशेषणेति । 'शतं पिपीलिकानां मया हतमि'त्यादावतीतेऽपि सं ख्योत्पत्तिरिति कन्दलीकारमतमांस्कन्दति अतीतगोचरेति । समवायिकारणमतीतं न भवत्यतस्तत्र संख्यारोप इत्यर्थः । ननु परमाणुपरिमाणं परिमाण्डल्यमिति व्घणुकपरिमाणे तज नकं मास्तु, व्घणुकयरिमाणं तु त्रसरेणुपरिमाणजनकमस्तु बाधकाभावादित्याशंक्याह त्र्यणुकपरिमाणमिति । संख्याजन्यमिति । बहुत्वसंख्याजन्यमित्यर्थः । सर्वेति । बहुभिरारब्धे यत्र महत्त्वोत्कर्षस्तत्र परिमा
न्यायलीलावती प्रकाशः
विषयकैकशानस्य विशिष्टज्ञानतया तयोः समानकालीनत्वात् तथा च द्वित्वविशिष्टद्रव्यज्ञानकाले द्वित्वस्य सत्त्वान्न तस्य भ्रान्तत्वमत आह विशेषणेति ।
त्र्यणुकपरिमाणं जन्यजन्यवृत्ति परिमाणत्वादिति स्थिते सत्याह त्र्यणुकेति । परिमाणत्वात् जन्यपरिमाणत्वादित्यर्थः । सर्ववादीति । ननु यत्र समानसङ्ख्यपरिमाणैः परिमाणारम्भस्तत्र सङ्ख्यावत् परिमाणस्याप्यारम्भकत्वनियमात् दृष्टान्तासिद्धिः, तथाप्यवयवत्रितया-
न्याय लीलावतीप्रकाश विवृतिः
बुद्धेर्नाश इत्येक कालः, द्वित्वविशिष्टद्रव्यज्ञानं तद्विनाश इत्येक, पूर्ववर्त्तितया कारणताया अबाधनादिति सिद्धान्तसंक्षेपः ।
तथाप्यवयवेति । यद्यपि तत्रापि परिमाणस्य जनकत्वमन्यथा न्यूनपरिमाणावयवचतुष्कारब्धेऽपि परिमाणप्रकर्षांपत्तेरिति प्रागुकताद-
- ↑ सर्ववादिसिद्धेति प्रकाशकृदभिमतः पाठो बोध्यः ।