सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


यस्मरणाभावात् तदेकगम्यत्वाञ्च । तस्य च ज्ञानत्वेन संस्कारानुमानस्य तु पट्वादराछुपाधिमादायान्यथासिद्धेः । 'द्वे द्रव्ये' इति ज्ञानसमकालं द्विश्वनाशे तज्ज्ञानं भ्रान्तं स्यादिति नापेक्षाबुद्धिनाशनाइयं द्वित्त्वमिति चेन्न ।' ज्ञानस्य तत्समये द्वित्त्वविशिष्टमि-


न्याय लीलावतीकण्ठाभरणम्

स्कारो जन्यतामित्यत आह तदेकगम्यत्वादिति। संस्कारस्येति शेषः । ननु ज्ञानत्वाद्विशिष्टज्ञानत्वाद्वा अपेक्षाबुद्धेरपि संस्कारजनकत्वमनुमास्यत इत्यत आह तस्य चेति । अनेकविशेषणविशिष्टविषयत्वं पटुत्वं, जिज्ञासोत्तरत्वमादरः, विशेषदर्शनानन्तर्थ्यमादिपदग्राह्यं, प्रकृते च तदेकमपि नास्तीत्यर्थः । ननु तत्समकालं द्विश्वनाशोऽस्तु तेन किं स्यादत आहे ज्ञानसमकालमिति । तथाचापेक्षाबुद्धिव्यङ्गयमेव द्विस्वमित्यायातमिति भावः । ननु द्वित्त्वगुणगोचरनिर्विकल्पकजन्य संस्कारसहित. मिन्द्रियं 'द्वे द्रव्ये' इति विशिष्टज्ञानं जनयिष्यति, न च तद् भ्रान्तं, स्वकालीनस्यैव द्विश्वस्य ग्रहादित्याभासेनाविकल्पकज्ञानं चेति फविककायामाहुः प्राञ्चः । ज्ञानस्येति । नहीं'दानीं द्वे द्रव्ये' इति विशिष्टज्ञानं येन भ्रमः स्यात्, किन्तु 'द्वे द्रव्ये' इति मात्रम्, 'इदानीं द्वे द्रव्ये' इति विशिष्टज्ञानं पाकरक्त्ते 'इदानीं श्यामोऽयमि'ति ज्ञानवद् भ्रम एवेत्यर्थः। ननु भवेदेवं यदि विशिष्टज्ञानं विशेषणज्ञानजन्यं भवेत्, किन्तु विशे-

न्यायलीलावतप्रिकाशः

कत्वमनुमास्यत इत्यत आह ज्ञानत्वेनेति । विशेष्यगतभूयोधर्मप्राहकत्वं पटुत्वं, जिज्ञासापरम्पराजनकत्वं चादरप्रत्ययत्वम्, आदिपदादन्यस्यापि संस्काराधायक विशिष्टज्ञानस्य सङ्ग्रहः । द्वित्वनाश इति । द्वित्व रूप निमित्तापेक्षाबुद्धिनाशनाश्यत्वव्यवस्थापनात् विशेषणाभावे विशिष्टज्ञानस्य भ्रमत्वादित्यर्थः। ज्ञानस्येति । 'द्वे द्रव्ये' इति विशिष्टज्ञानं स्वसमयवर्त्तिवैशिष्टयं न विषयीकरोति किन्तु वैशिष्टय मात्रम्, तच्चान्यवहितपूर्वक्षणे तत्रास्त्येव, 'इदानीं द्वे द्रव्ये' इति घीश्च स्थूलकालोपाधिमादायेत्यर्थः । ननु विशिष्टज्ञानं न विशेषणशानजन्यं विशेषणविशेष्य-

न्यायलीलावती प्रकाशविवृतिः

नेन विपरीतस्मृत्यापत्तेः समानप्रकारकत्वेन जनकत्वाभ्युपगमात् दृष्टे सम्भवत्यष्टकल्पनानुपपत्तेरिति । द्वे द्रव्ये इति । अत्रापेक्षाबुद्ध्यनन्तरं द्वित्वं तनिर्विकल्पकं ततो द्वित्वत्वविशिष्टद्वित्वत्वज्ञानमपेक्षा-