सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४०
न्यायलीलावती


ल्पकापेक्षाधीजन्यत्वनियमात् शससंख्यावत् किन्त्वेकैकत्वविविशिष्टद्रव्यधी: [] । अविकल्पकज्ञानं च न संस्कारजनकं, तद्विष


न्यायलीलावतीकण्ठाभरणम्

एकत्वविशिष्टधारिति । नानैकत्व समूहालम्बनमित्यर्थः । अनेनैव द्विवोत्पत्तौ द्रव्यविशिष्टज्ञानस्यानपेक्षणात् नानैकत्व समूहालम्बनमेवापेक्षाबुद्धिस्ततो द्वित्वोत्पत्तिस्ततो द्वित्वत्वसामान्यज्ञानं ततो द्वित्त्वगुणज्ञानं ततो द्वे द्रव्ये इति विशिष्टज्ञानम् अत्र च विशिष्टज्ञानसमकालं द्वित्वगुणस्य नाश इति मूले प्रक्रियोक्ता, तत्र यद्येकत्र गुणबिषयैवापेक्षाबुद्ध्या द्वित्वं जन्येत तज्जनितसंस्कारेण द्वित्वगुणज्ञानकाल एव द्वित्वनाशातज्ज्ञानं भ्रान्तं स्यादित्यापादनमयुक्तं स्यादत आह--- आविकल्पकज्ञानं चेति । द्रव्याविषयक मेकत्वगुणज्ञानमित्यर्थः । तदुक्तं मूल-'समूहालम्बनमेव संस्कारकारणं नालोचनमि'ति, तत्रालोचनपदेना ने कत्वसमुहालम्बनस्यैवाक्तत्वात् । ननु तदपि विशिष्टज्ञान त्वात् संस्कारजनकं स्यादेवेत्यत आह तद्विषयेति । केवलयोरेकत्वगुणयोः स्मरणाभावादित्यर्थः । ननु माभूत् स्मरणं तथापि तेन सं-

न्यायलीलावतीप्रकाशः

द्वित्त्वस्य ग्रहादित्यत आह अविकल्पकेति । स्मृतेर्विशिष्टविषयत्वनियमादित्यर्थ: । ननु स्मृत्यभावेऽपि निर्विकल्पकस्य ज्ञानत्वात्संस्कारजन

न्यायलीलावतीप्रकाशविवृतिः

गुणगोचरनिर्विकल्प केन संस्कारोत्पत्तिसमय एव नाशादिंदमयुक्तम्, तथापि स्वकालीनत्वेन स्वाव्यवहितप्राक्कालत्वमेवात्रोक्तं प्रत्यक्षे वि षयस्य कारणतायास्तावतापि निर्वाहात् वर्तमानत्वग्रहस्य च स्थूलोदाधिमादायापि सम्भवादिति भावः । नचैवमपि 'द्वे द्रव्ये' इति ज्ञानमसिद्धमेव विशेषणतावच्छेदकप्रकारकज्ञानाभावादिति वाच्यम् । विशेष्ये विशेषणमिति न्यायेनापि तत्सम्भवात् । नचैवं निर्विकल्पकस्य संस्काराजनकत्वे तत्कालोत्पन्नविशिष्टज्ञानमादायाप्य सङ्गतिरिति कथं पूर्वपक्षावकाश इति वाच्यम् | अनुव्यवसायातिरिक्तस्थले सामान्ययोगजभिन्नस्य संस्कारस्यैव प्रत्यासत्तित्वमित्यभिमानेन पूर्वपक्षकरणात, सिद्धान्ते च तदभिमानखण्डन एव निर्भरत्वादिति । अविकल्पकेतीति । न चात्र मानाभावः। घटविशेष्यकघटत्व प्रकारकशा


  1. एकत्वविशिष्टधीरिति मिश्रमतोत्र पाठ ।