रपेक्षाधी, दुरादुभयद्रव्यावमासेऽध्ये कत्वानवभासे तत्र दिवानुत्पादात् [१]। नाप्य विकल्प कैकसंख्यामतिः, संख्यायाः सविक-
न्याय लीलावतीकण्ठाभरणम्
था हुताशेऽपि न स्यादित्यर्थः । अपेक्षाबुद्धेर्निमित्तस्य नाशाञ्चेत् द्वित्त्वादिनाशस्तदा जनिकाव्यपेक्षाबुद्धिर्द्वित्वादीनामिति स्थिते सति किमिवषया सेति विचार्ग्यते इत्याह अपेक्षामतीति । नहि द्रव्यधीरिति । एकत्वालम्बनेत्यर्थः । नानैकत्व निर्विकल्पकमपि न द्वित्वादिजनक- नकमित्याह नापीति । शतसंख्याद्युत्पादे सविकल्पजन्य स्वावधारणात् प्रत्यक्षस्थले सन्देहे आनुमानिकापेक्षाबुद्धौ तथावधारणात् ।
न्यायलीलावतीप्रकाशः
नानैकत्वगोचरापि धोर्न निर्विकल्पक रूपेत्याइ नापीति । यद्यध्येतत्प्रत्यक्षस्थले परस्यासिद्धम्, तथापि यत्रानुमानिक्यपेक्षाबुद्धिद्विस्वादिजनिका तद्द्दष्टाम्तेनाऽन्यत्रापि सविकल्पकापेक्षा बुद्धिजन्यत्वं साध्यमिति भावः । ननु द्वित्त्वगुणगोचरनिर्विकल्पकजन्यसंस्कारसहितमिन्द्रि यं 'द्वेद्रव्ये' इति विशिष्टज्ञानं जनयिष्यति प्रत्यभिज्ञाने, तत्रापि संस्कारसचिवस्य तस्य ( तत्र ) सामर्थ्यमस्तीति न तक्रान्तं स्वकालीनस्यैव
न्याय लीलावती प्रकाशविवृतिः
उक्तानुमानस्योक्तक्रमेण दूषणेऽपि अपेक्षाबुद्धिनाशो न द्विश्वनाशकः समवाय्यसमवायिनाशगुणान्यत्वात् नाशान्तरवदित्यनुमानमविकलमेव, तथाप्यन्वयव्यतिरेकाभ्यामेवापेक्षा वुद्धेः कारणत्वम् । न च व्यञ्जकतया तदन्यथासिद्धिः । दण्डादेरपि तथात्वापत्तेः, सत्कार्य वादापत्तेश्च । नचैवमपि तन्नाशस्य द्वित्वनाशकत्वे मानाभावः । द्वित्वस्य स्थायित्वे एकत्वद्वयाज्ञानदशायामपि निरासानाशस्वीकारे प्रत्ययापत्ते परिशेषेणा. स्तज्ज्ञानव्यङ्ग्यत्वस्य तथापि यत्रेति । पेक्षाबुद्धिनाशस्य नाशकत्वस्वीकारादिति दिक् । न चेदमप्रयोजकम्, एकत्वगोचरज्ञानत्वेनैव जनकत्वादिति वाच्यम् । दूराद्भदाग्रहेऽपि धर्मिणो द्वित्वप्रत्ययापत्तेः परस्परविभेदविशिष्ठैकत्वज्ञानस्य कारणत्वात् । न चैवमध्येकस्वप्रकारकत्वं नापेक्षणीयमिति वाच्यम् । भेदग्रहार्थमेवाधिकरणतावच्छेदकत्वेन तदपेक्षणादिति । स्वकालीनस्यैवेति । यद्यव्यपेक्षाबुद्धेः क्षणत्रयावस्थान स्वीकारेऽपि द्विश्व
- ↑ से शिवानुत्पादनात् प्रा० पु० पाठः ।