सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३८
न्यायलीलावती


दिषर्मवतोरप्ये कत्वककैपृथक्त्वयोर्नियतव्यञ्ज कव्यङ्गयत्ववद्वत्वमध्यपेक्षाबुद्धिष्यमिति प्रक्रियाया असिद्धिरिति चेत्र । हेतोर्व्फतिरेकग्रहे तेनैव बाधातू, अन्यथा व्यतिरेकासिद्धेः । अत एव हुताज्ञान वन्दाग्रहादेपक्षामीतजन्यं द्वित्वमिति स्थिते [१] न हि द्रव्यधी-


न्यायलीलावतीकण्ठाभरणम्

नभ्युपगमात् तत्राणि परस्पराव्यभिचारिव्यञ्ज कव्ययमिति कल्पनामात्रमित्याह पूर्वमपीति । हेतोरपीति । उक्तनुमानयोर्निमित्तनाशनाश्यो न गुण इति व्यतिरेकव्याप्तिर्वाच्या निमित्तनाशनाश्यत्वं च द्रव्ये कर्मणि चासिद्धमिति गुण एव वाच्यं तथाच बाध इत्यर्थः । अत एव तदुन्नीतः पक्षेतर उपाधिरिति भावः । अन्यथेति । यदि द्वित्वादौ सन् वाच्य इत्यर्थः। केवलान्वयि चानुमानं त्वया नेष्यत एवेति भावः। नन्विन्धननाशनाश्ये हुताश एव व्यतिरेकप्रसिद्धिः स्यादत आह--- अत एवेति । हुताशस्पान्यत्रक्लृप्तल नवाथ्यसमवाय्यन्यतरनाशादेव नाशादित्यर्थः । बन्दीमहादिति | द्विवे यथा, न निमित्तनाशनाश्यत्वं त

न्यायलीलावतीप्रकाशः

ह्ययोः समानदेशयोः प्रतिनियतव्यञ्जकव्यङ्ग्यत्वानुपपत्तिः, तथाविधयोरेवैकत्वैकपृथक्त्वयोः प्रतिनियतव्यञ्जकव्ययत्वादित्याह पूर्वमपीति । गुणत्वेन निमित्तनाशानाश्यत्वे साध्ये निमित्तनाशनाक्ष्यत्वात् गुणत्वरूपो व्यतिरेको वाच्यः, निमित्तनाशनाश्यत्व द्रव्यकर्मणोर्न हृष्टमिति गुण एव तद्वाच्यं, तथाच बाव इत्याह हेतोरिति । अन्यथेति । तथाचान्वयव्यतिरेकित्वव्याघातः, केवलान्वयी च हेतुस्त्वया न स्वीकियते इत्यर्थः । ननु निमित्तनाशनाश्ये वह्नौ हेतुव्यति रेको ग्राह्य इत्यत आइ अत एवेति । तत्राप्यन्यत्रक्लृप्त समवाय्यलमवायिकारणनाशस्यैव नाशकत्वात् द्वित्वादिनाश [२] वद्वह्निनाशोऽपि न निमित्तनाशजन्य इत्यपेक्षाबुद्धि कारणकं द्विवादीत्यर्थः । द्रव्यधीरिति ।

न्यायलीलावतीप्रकाशविवृतिः

व्यङ्गथत्वानुपपत्तिरिति । तथा च द्वित्वद्विपृथक्त्वयोस्तत्त्वानुपपत्तिरिति भावः । तथाच बाध इति । गुणान्तरेऽपि निमित्तनाशनाश्यत्वासम्मवात् द्वित्त्व एव तद्वाच्यमतो बाघ इति भावः । द्वित्वादिनाश इव इति तन्मते दृष्टान्तः । व्यतिरेकडष्टान्तो वा । अपेक्षाबुद्धिकारणकं द्वित्वादीति । यद्यपि


  1. ↑ व्यवस्थित इति प्रा०पू० पाठ ।
  2. ↑ द्वित्यादिनाश द्दवेति विवृत्यभिमतः पाठोऽत्र बोध्य ।