सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३१
व्यायलीलावतीकण्ठाभरण-लविवृति प्रकाशोद्भासित ।


ण एवोत्वस्यसिद्धेः । नियतहेतुकुलाला दिव्य तिरेकेऽपि जन्मवत्तस्थापि संभावितत्वात् । न चैवं व्यणुकनाशसिद्धि, मानाभावात् । रूपं चाश्रयनाशादेव विनश्यति, कार्यरूपत्वात् नष्टघटरूपवदि [] त्यस्यापि प्रत्ययस्य प्रत्यभिज्ञाननिर्दलितत्वात्, विपक्षे बाधकरभावाच्च पाकजा एवैति इति युक्तमिति चेत् । न ।

 सूचीसं भेदनिर्दकितावयवार परम्परा नष्टघटे घटान्तरोदयवत्


न्यायलीलावतीकण्ठाभरणम्

पि तुल्यन्यायतयोपपादयन्नाह नियतेति । पैलुकमते क्षणादिवृत्तिरेकेणैव घटाद्युत्पत्तिवदेतत् स्यादित्यर्थः । पिठरनाशेऽपि व्घणुकादिकं नश्यतीत्यत्र न मानं, तथाच पलुिपाकपक्षोऽनुपपन्न एवेत्याह नचैवमिति । नन्ववयविरूपमाश्रयनाशमात्रनाभ्यमिति कथमग्निसंयोगान्ना शः स्यादित्याशंक्याह -- रूपमिति । स एवायं घट इति प्रत्यमिज्ञानाऽन्यथानुपपत्त्या व्याप्तेरेवानभ्युपगमादित्यर्थः । पाकजा एवैत इति । पिठ ररूपादय इत्यर्थः ।

 पिठरपाकसाधकानां हेतूनामनैकान्तिकत्वमाह -सूचीति । सूच्यग्रव्यतिभेदेन यत्र व्घणुकभेदमात्रेण स्थूलावयविपर्थ्यन्तं नाशः तत्र घटान्तरोत्पत्तिस्त्वया वाच्या, तथा च तत्रैव प्रत्यभि ज्ञायमानत्वादयो हेतवोऽवयविस्थैर्थसाधका व्यभिचारिण इत्यर्थः ।

न्यायलीलावतीप्रकाशः

दिकं बिना कार्यरूपायुत्पत्तिस्तयोस्तत्कारण कस्वादिस्यत आइ नियतेति । यथा परमाणुपाकपक्षे स्वहेतुकुलालादिव्यापारादिकं विना घटायुत्पत्तिस्तथावयविपाकपक्षेऽपि क्लृप्तहेतुं विनैव तयोरुत्पत्तिः सम्भाव्यत इत्यर्थः । नचैवमिति । एवमभिघातादेर्द्रव्यनाशकत्वेऽपि द्यणु. कनाशे मानाभावः, स्थूलद्रव्यनाशेऽपि तदुपपत्तेरिति व्घणुकरूपादीनामेव न कारणगुणपूर्वकत्वनियम इत्यर्थः ।

 उपरिस्थितानामित्यनुमानमनैकान्तिकयन्नाह सूचीति । प्रत्यमि-

न्यायललावतीप्रकाश विवृतिः

स्थूलद्रव्यनाशेऽपीति । अभिघातस्य सुक्ष्मनाशकत्वादित्यर्थः । एवञ्च सिद्धमवयविरूपं पाकजमिति भावः ।


  1. अत्र न इष्ट घटवदिति प्रा०पु०पाठः प्रामादिको भाति ।