न्यायलीलावतो ८३० पाकस्यापि सच्छिद्रत्वादवयविनां स्फटिकान्तरिन्द्रिय प्रवेशवत् घंटे बहिः शैत्यवेद नवदुपपत्तेः । न च स्पर्शवद्वेगवद्रव्याभिघा तादूद्रव्यनाशः द्रव्यविरोधिकर्मोत्पत्तौ मानाभावात् । कर्मत्वस्य च नभोमागविभागेनापि करकम्पे तत्परमाणुकम्पवदुपपत्तेः । न च संयोगमात्रं तद्धेतुः । पवन संमुखघृतघटपटादेरपि नाशापत्तेः । कर्म- , न्यायलीलावतीकण्ठाभरणम् रणकत्वं घटरूपादिवृत्तिर्नवेति विप्रतिपत्तिः | पीलुपाकपक्षे हि घटा- देर्नाशो वाच्यः स च कथं भवेत यावता स एवायं घट इति प्रत्य भिक्षा घटोपरिघृतानां शरावादीनामपि, ततः पूर्वदेश एव घटादीनां सवम्, सैव च संख्या, तावदेव च परिमाणं नोपपद्येत, परमाणुपर्थ्यन्तं भङ्गविपर्थ्याससम्भवात् सर्वावयवावच्छेदेन पिठरोsपि पाकमुपपाद. यति । ननु तावताधःसन्तापनेनावश्यं तन्त्र द्रव्यमेव लक्ष्यतीत्याह नचेति । नोदनाभिघाताभ्यां द्रव्यारम्भक संयोगविरोधिविभागजनक. मेष कर्मोत्पद्यत इत्यत्र मानाभावादित्यर्थः । ननु विभागं चेन्न जन यिष्यति तदा कर्म्मत्वव्याघात इत्यत आह कर्म्मत्वस्येति । न ह्यारम्भ. कसंयोगविरोधिविभागजनकत्वमेव कर्म्मस्वभावो, दृश्यते हि केवले परमाणावपि कर्मेत्यर्थः । परमाणुषु कर्म्माभ्युपगम्येदमुक्तमिदानीं स्पर्शवद्वेगवद्रव्य संयोगेऽपि पिठरारम्भकपरमाणुषु कम्मैव नोत्पद्यत इत्याह नचेति । पुनः कर्म्माभ्युपगम्य विशिष्टकम्मत्पादेऽनिष्टमाह- पवनेति । कर्म्मण एवेति । द्रव्यारम्भक संयोगविरोधिविभागजन कस्येत्य थं | कारणरूपादिकं विनापि कार्ये रूपादयुत्पत्तिमाश्रयनाशं विना. न्यायलीलावतीप्रकाशः धिविभागजनकत्व नियम इत्यर्थः । कर्म चोत्पन्नं विभागजनने निरपे क्षमित्यन्यथोपपन्नमित्याह कर्मत्वस्य चेति । एवं परमाणौ कर्मोत्पत्तिम भ्युपेत्योकम्, इदानीं तत्र कर्मैव नोत्पद्यत इत्याह नचेति । स्पर्शवद्वेग. वत्संयोगमात्रं न द्रब्यारम्भक संयोगविभागजनकक्रियाजनकमित्य. र्थः । न चाश्रयनाशं विना कथं पूर्वरूपादिनाशः कथं वा कारणरूपा. न्यायलीलावती प्रकाशविवृतिः विवक्षितमन्यया पूर्वकल्पभेदानुपपत्तेः । द्रव्यारम्भकेत्यादि तु परस्य क्रियामात्र एव तथात्वाभ्युपगमेन स्वरूपनिर्देशपरम् ।
पृष्ठम्:न्यायलीलावती.djvu/९१४
दिखावट