सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२९
न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता


विरोधापत्तेः । संयोगे चातिप्रसङ्गात् इति व्घणुकादिक्रमेणाSन्त्यावयविपर्यन्तमारम्भ इति व्घणुकसिद्धिः ।

 कथं पुनः पक्वघटेऽपि कारणगुणपूर्वकता रूपादीनाम् ? असंभवद्विरुद्धधर्मसंसर्गो हि घटः प्रत्यभिज्ञायते, उपरिस्थितानामपाताच्च, तद्देशत्व तत्संख्यत्व तत्परिमाणत्वोपलब्धेक्ष्च । अन्त:-


न्यायलीलावतीकण्ठाभरणम्

च न्यूनाधिकदेशयोः समानदेशविरोधो न स्यात्तदा शरीरदेशेऽपि घटो वर्तेत संयोगवृत्त्येत्याह संयोगे चेति ।

 इदानीं पाकजप्रक्रियां प्रस्तौति कथमिति । प्रयोजनमत्रापि आत्मतत्त्वज्ञानमेव कथञ्चिदन्वेष्टव्यम् - सत्यवयविनि रूपादीनामुत्पादविनाशसिद्धावात्मन्यपि ज्ञानायुत्पादविनाशाविति, ज्ञानं चैतन्यम् । अवयविरूपाद्यग्नि संयोगासमवायिकारणकं न वा, अग्निसंयोगासमवायिका-

न्यायलीलावतीप्रकाशः

विरोधः, अत्र तु न तथेत्याह संयोगे चेति । तथासति शरावसंयुक्तेनापि घटः संयुज्येतेत्यर्थः ।

 सम्प्रति किं पार्थिवरूपादीनामेव पाकजत्वं किंवा परमाणुवृत्तीनामेव तेषां पाकजत्वं न त्ववयववृत्तीनामिति विचारः । अवयविरूपादिकं तेजःसंयोगासमवायिकरणकं नवेति संशयः । प्रयोजनं त्वाश्रये सत्येव रूपाद्युत्पादनाशसिद्धौ धर्मधर्मिभेदे रूपादेः समवायिकारणजन्यत्वस्थितौ बुद्ध्यादेरपि तज्जन्यत्वस्थितावात्मसिद्धिः । अत्र पूर्वपक्षमाह कथमिति । आमपक्कावयविनोरभेदसाध्यकं प्रत्यक्षमाह असम्भवदिति । अनुमानमध्याह उपरीति । मूर्त्तानामिति शेषः । ननु स्थूलस्य घटादेरन्तःपाकानुपपत्त्या परमाणूनां पाकः स्यादित्यत आह अन्तःपाकस्येति । द्रव्यविरोधीति । न ह्युक्तहेतोर्द्रव्यारम्भकसंयोगविरो-

न्यायलीलावतीप्रकाशविश्वृतिः

समवेतत्वस्येति । द्रव्यत्वपक्षधर्मावच्छिन्नसाध्यव्यापकस्येति शेषोऽतो न सत्तादौ साध्याव्यापकत्वम्, अन्तरावयविधीस्तु बाधकेन भ्रान्तेति भावः । तथासतीति । समवायेनैकत्र द्वयोर्मूर्त्तयोरविरोधे संयोगेनापि तथा स्यादिति शरीरावच्छिन्ने घटो वर्त्ततेत्यर्थः ।

 अवय विरूपत्वादिकमिति । अत्र व्यक्तिपक्षतायामंशतो बाघ इति जातिपक्षता । द्रव्यारम्भ कसंयोगविरोधीति । न क्रियाहेतुरित्येव प्रकृते