सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३२
न्यायलीलावती


सर्वस्योपपत्तेः । विरुद्ध धर्माध्यासस्यापि [] काठिन्याकाठिन्यस्य दर्शनात् । न च स्पर्शभेदोऽसावन्य एव जायत इति वाच्यम् । चक्षुषापि तत्प्रतीतेस्ततः संयोगभेद एवायम् स च प्राक्तनो नास्त्यनुपलब्धेः । तन्नाशाय च क्रियैव दहनस्य कल्पनीया, दृष्टत्वात् । स्पर्शवद्वेगवत्पवनसंवलनबलेन च पिठरोदरकुहरसंचारिजळतण्डुलोन्मथ नविक्लेदकारिणि ज्वलज्ज्वलनज्वालाकलापे का संभावना पिठरावयवानां, तथा तन्मध्यपतितव्यणुकस्यापि का जीवितव्यवस्थिति रित्यनुमानमप्युदयमासादयति । तथाप्येक


न्यायलीलावतीकण्ठाभरणम्

किञ्च प्रत्यभिज्ञापि विरुद्धधर्म्माध्यासदर्शनादप्रमाणमित्याह - विरुद्धेति । ननु काठिन्यं स्पर्शभेद एव अग्निसंयोगाद् घटे जायते इत्यत आह नचेति । संयोगभेद इति । अवयवसन्तानविशेष इत्यर्थः । ननु सोऽप्यासीदेवेत्यत आह स चेति । पूर्वसन्तानादिलक्षण एवायमित्यर्थः । ननु पूर्वव्यूहनाशः कथमित्यत आह तन्नाशाय चेति । ननुक्त्तं द्रव्यारम्भकसंयोगनाशकविभागजनिका क्रिया नाग्निसंयोगमात्रजन्येत्यत आह स्पर्शवदिति । यादृशेनाग्निसंयोगेन पिठरान्तवर्त्तितण्डुलादी नामप्यूर्ध्वगमने विभेदस्तादृशेन पूर्वसंयोगद्रव्यारम्भक संयोगनाशः कथं न स्यादित्यर्थः । अनुमानमपीति । स्पर्शवद्वेगवत्प्रबलपवनाभिहतताहशज्वालाकलापाभिघातोऽभिहन्यमान पार्थिवावयवारम्भक संयोगनाशक विभागक्रियाजनकः विशिष्टाभिघातत्वात् ज्वलद्वह्निमध्यवर्त्तिपटादिप्रतियोगिक वह्न यभिघातवदित्यनुमानवदित्यर्थः । यद्वां विवादपदमवयविरूपादि आश्रयनाशकनाश्यमवयविरूपादित्वात्

न्यायलीलावतीप्रकाशः

ज्ञाने विशेषणासिद्धिमाह विरुद्धधर्मेति । ननु काठिन्यं स्पर्शविशेष: स चैकस्मिन्नेवावयविनि पाकज एवेत्यत आइ--नच स्पर्शेति । काठिन्यात्मकसंयोग एवावयवानां द्रव्यारम्भकस्तथाच तद्भेदे असमवायिकारणनाशादवश्यं पूर्वद्रव्यनाश इत्यर्थः । तत्राशायेति। द्रव्यारम्भक संयोगनाशायेत्यर्थः । अनुमानमपीति । रूपमाश्रयनाशादेव नश्यतीत्यनुमानमपीत्यर्थः । युक्तञ्चैतत् कार्या-


  1. धर्मस्यापीते मा०प० पाठ ।