नागौरवात् । व्यापक मनोयोगस्यैव तादृशस्वेऽसमवायिकारणळक्षणेऽदृष्टेतरत्वस्यापेक्षितत्वात् । असमवायिकारणमिति च तन्त्र-
न्यायलीलावतीकण्ठाभरणम्
असमवायिकल्पनायां गौरवम् । न चाहष्टमेव तथास्त्विति वाच्यम् । विभुविशेषगुणवत्त्वेन मूर्त्तसंयोगस्यैव असमवायि कल्पना ध्रौठ्यादित्यर्थः । तर्हि काय्यैकार्थसमवेतकारणत्वं यद्यसमवायिकारणलक्षणं विभुकार्येषु तदडष्टेऽतिव्याप्तं म्यादत उक्तम् अदृष्ठेतरत्वस्येति । उक्तमिलितपुरस्कारेण विभाषेयं नहि निमित्ते सत्येव व्यवहारः स्वात्,
न्यायलीलावतीप्रकाशः
आत्ममनःसंयोगोऽदृष्टं चेत्युभयम् सुखादीनां शब्दवद्विभुविशेषगुणत्वेन मूर्त्तसंयोगासमवायिकारणकवृत्ति ग्रणत्वव्याप्यजातिमत्त्वसिद्धौ मनःसंयोगस्यैवासमवायिकारणस्य सत्वात् तदसमवायिकारणकल्पकमानाभाव इत्यर्थः । ननु सुखं प्रत्यदृष्टस्य कारणताऽस्ति, सा चैकार्थसमवेतसुखं प्रत्येवेति तस्यासमवायिकारणत्वे प्रमाणसिद्धे किं कल्पनागौरवेणेत्यत आह असमवायिकारणलक्षण इति । कार्यैकार्थसमवाय कारणैकार्थ समवायान्यतरप्रत्यासत्या आत्मविशेषगुणव्यतिरिक्त, यद्वा कार्यकारणभावनिरूपकघर्मनिरूपितकारणताश्रयोऽसमवायिकारणम्, आत्मविशेषगुणानामसमवायिकारणत्वव्यवहाराभाबादित्यर्थः । यद्वा असमवायिकरणमिति परीक्षकाणां परिभाषा न लौकिकीयं संज्ञा भावन्निमित्ते सत्यपि यत्र तेषां नाभिप्रायस्तत्र न वर्त्तते इत्यत आह असमवायिकारणमिति चेति । सत्यपि
न्यायलीलावती प्रकाशविवृतिः
साध्यमाह मूर्त्तसंयोगासमवायीति । कार्यैकार्थेति । यन्निरूपितसमवायिकारणत्वं तत्कार्यं कारणं च तस्यैव समवाय कारणमेतदुभयान्यतरैकार्थसमवायाश्रयत्वे सति कारणत्वम् । तावन्मात्रं चा दृष्टशानादाविच्छादिकारणे गतमित्यात्मविशेषगुणव्यतिरिक्तमिति विशेषणम् । कार्यकारणभावेति । कार्यकारणभावनिरूपको धर्मस्तदुभयमेव तन्निरूपिता तदेकार्थसमवायावच्छिन्ना या कारणता तदाश्रयत्वमित्यर्थः । न ह्यदृष्टस्यात्मविशेषगुणानां वा तथा कारणत्वम्, तत्रासमवायिकारणव्यवहाराभावेन तथा कारणतायां मानाभावादिति भावः । न लौकिकीयमिति । न सर्वलोकसिद्धान्तेश्वरसङ्केतविषय इति यावदित्यर्थः । औ