सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१६
न्यायलीलावती


पङ्कजा दिपदवत्तदुपाधिभिनिँयतमित्यदोषः । लिङ्गे च परामर्शस्यैव जनकता समारोप्य [] व्यवयिते ।

 शीत स्पर्शप्रबुद्धश्चाध्यात्मिको वायुसंयोगः कम्पनिदानम् । अत एव 'कुम्भिते पवने तदभावः, शीतयोनिता चानिलस्येति चरकाचार्योपदेशोऽपि । उभयासमवायित्वे [] कल्प-


न्यायलीलावतीकण्ठाभरणम्

तत्र दृष्टान्तं दूषयति लिङ्गे चेति । अतीतानागतलिङ्गस्यले परामर्षस्यैव कारणत्वं न तु लिङ्गस्थापीत्यर्थः । ज्ञानद्वारा च सुखस्य पितुर्ज्ञानाजनकत्वात् अतीन्द्रियत्वेन तद्बोचरशाने मनसोडसामर्थ्यादिति भावः ।

 शीतस्पर्शस्य विजातीयकम्पारम्भकत्वं व्यवस्थितं तत्राह शीतस्पर्शेति । सुखदुःखे प्रत्यदृष्टस्यासमवायिकारणत्वं स्यादितियदाऽऽशङ्कितं तत्राह उभयत्रेति । अदृष्टस्यात्ममनोयोगस्य च सुखदुःखे प्रति

न्यायलीलावतीप्रकाशः

जातीयजनकमित्यत्र दृष्टान्तं दूषयति लिङ्गे चेति । अतीतानागतलिङ्गज्ञानादनुमित्युत्पत्तेर्लिंङ्ग परामर्श: कारणं नतु परामृष्यमाणं लिङ्गम्, एवं सुखमपि न सत्तामत्रिण सुखहेतुर्ज्ञानापक्षण तु तेनैवान्यथासिद्धिः । न च तज्ज्ञानं तस्य व्यापार इति नान्यथासिद्धि, अनागतस्य तस्य व्यापारत्वायोगात्, तथाच पुत्रादिसुखविषयत्वेन ज्ञानस्य सुखजनकत्वं नतु विषयस्यापि तस्य कारणतावच्छेदकमात्रत्वात् । एतेन चन्दनादिजन्यसुखं प्रति विषयस्येव पुत्रादिसुखस्य पित्रादिसुखजनकत्वं स्यादित्यपास्तम् । पुत्रादिसुखस्य पित्राद्य तीन्द्रियत्वात्, वैषयिकसुखस्य चेन्द्रियार्थ सन्निकर्षजन्यत्वात् ।

 शीत: स्पर्शो विजातीयस्यापि जनक इति दूषयति शीतेति । उद्भूत स्पर्शवद्वेगवसंयोगस्य कम्पकारितवादित्यर्थः । शीतर्स्पशस्य वायुस्पर्शोद्बोधकत्वे मानमाह शीतयोजितेति । उभयेति ।

न्यायलीलावतीप्रकाशविश्वतिः

न्यत्वमपि गुणविशेषणम्। गुणवृत्तिपदं च यद्यस्ति तदोक्तविशेषण सूचकमेव । शब्दे परमेश्वरज्ञानादौ च व्यभिचारमालोक्य जातिगर्भ


  1. परामर्शजनकताऽऽरोप्येति प्र० पु० पाठः ।
  2. उभयत्रासमवायित्य इति मिश्रसंमतः पाठ ।