वाऽन्यथासिद्धेः । शब्दादौ चैकत्वे तत्प्रतिबद्ध संयोगादिप्रसक्तावनित्य सावयवद्रव्यत्वेन [१]कुड्यादिगमनमतिघातापत्तौ भ्रान्तत्वाद्बुद्धेः । एवमन्यत्रापि गुणानामगुणत्वनियमावधारणं प्रतिकूलतर्कैरुन्नेम् ।
विशेषगुणत्वं च शास्त्रीयां रूढिमाश्रित्य
न्यायलीलावतीकण्ठाभरणम्
निराकरेति शब्दादौ चेति । यद्यपि परमाणुरपि प्रतिहन्यत एव, तथापि प्रतीघातोपलम्भार्थमुक्कं सावयवत्वेनेति । बुद्धरिति । एक: शब्द इति बुद्धेरित्यर्थः । एवमिति । रूपादीनामपि परेण गुणवत्त्व आपादिते संयोगविभागध्रौव्येण द्रव्यत्वमापाद्य दोष उन्नेय इत्यर्थः । विशेषगुणत्वमिति । रूपादीनां शब्दान्तानां षोडशानां विशेषार्थव्यवच्छे दाय प्रभवन्त्यमीति योगपुरस्कारेण सूत्रकृता रूढि: परिभाषा कृता न तु परत्वादीनामित्यर्थः । ज्ञायमानं पुत्रसुखमेव पितृसुखजनकं पशमृष्यमाणलिङ्गवदतो न सुखस्य विजातीयमात्रजनकत्वमिति यदुक्तं
न्यायलीलावतीप्रकाशः
विशेषगुणत्वमिति ।स्वाश्रयलमानाधिकरणद्रव्यविभाजकोपाध्यत्यन्ताभावसमानाधिकरणगुणावृत्तिगुणत्वव्याप्यजातिमति विशेषगुणपदं रूढमिति रूढ्या योगनियमान्नान्यत्र तत्प्रयुज्यत इत्यर्थः । सुखं स-
न्यायलीलावतीप्रकाशविवृतिः
तत्राप्यात्मगुणवृत्तित्त्वं पूरणीयम् । स्वाश्रयेति । स्वं विशेषगुणताप्रयोजिका जातिर्गन्धत्वादिस्तस्य य आश्रयो गन्धादिस्तत्समानाधिकरणद्रव्यविभाजकोपाधिः पृथिवीत्वादिस्तदत्यन्ताभावलमानाधिकरणो यो गुणस्तत्र न वर्त्तते या जातिस्तद्वत्त्वमित्यर्थः । अत्र सङ्ख्यात्वमादाय तदाश्रयेऽतिव्याप्तिरित्यवृत्तीत्यन्तं जातिविशेषणम् । एवञ्च रूपत्वादेर्नीलत्यादिक मादाय विशेषगुणत्वम्, वायुरुपर्शोऽपि पाकविरोध्यनुष्णाशीतत्वव्याप्यजातिमादाय, एवं जलांशेऽप्यूह्यम् । गुणत्वव्याप्यपदं तु घटत्वादिकमादायातिव्याप्तिवारणाय सामानाधिकरण्यमात्रपरम् । यद्यप्येवमंपि कठिनसंयोगवश्वमग्निसंयोगनाश्यता यतावच्छेदकघृतादिद्रव्यत्ववृत्तिजातिविशेषं तदनाश्यतावच्छेदक सुवर्णद्रवत्ववृत्तिजातिविशेषं चादाय तत्र तत्रातिव्याप्तिस्तथापि संयोग नैमित्तिकद्रवत्वा
- ↑ सावयवत्वेनेति प्रा० पु० मिश्राभेमतः पाठः ।