सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१८
न्यायलीलावती


परिभाषा । सा च सत्यपि निमित्ते कचिददृष्टादौ न प्रवर्तते, तान्त्रिकाणामव्यवहारारात सत्यपि गङ्गासामीप्ये घोषादन्यत्र गङ्गोपचारवत् । कर्मणि च पूर्वसंयोगादरम्यथासिद्ध संनि धित्वेनाहेतुत्वात् । स्यादेतत् यद्यन्वयी हेतुः स्यात्, न चैवम्, अनुपाधित्वस्याप्रतिबन्धत्वात् अन्यथाऽनै कान्ति के सोपाधित्वो-


न्यायलीलावतीकण्ठाभरणम्

अन्यथा प्रवाहसामीप्यनिबन्धन उपचारो यथा तीरे तथा घोषेऽपि स्यादित्यर्थ॥ ननु कर्म्मणि पूर्वसंयोगेऽप्युक्तलक्षणबलादसमवायिकारणत्वं स्थादित्यत आह कर्म्मणीति । कारणत्वे सति कार्य्यैकार्थसमवेतकारणत्वमसमवायिकारणत्वं प्रकृते तु कारणत्वमेव नास्तीत्यर्थः ।स्यादेतदिति । साधर्म्यव्यवस्थापनं स्याद्यद्यन्वयी हेतुः स्यादित्यर्थः । अन्वयी - केवलान्वयी । पश्चरूपसम्पन्नो हि हेतुरित्युच्यते केवलाम्वयिनि च विपक्षव्यावृत्तेरभावान हेतुत्वामित्यर्थः । नन्वनौपाधिकः सम्बन्धो व्याप्तिः स च केवलान्व यिन्यस्त्येष व्यासपक्षधर्म्मत्वमेव च लिङ्गत्वं न तु पञ्चरूपोपपन्नत्वमित्यत आह नचेति । अन्यथेति । व्याप्तिविघटनं हि साक्षादोषस्तदुन्नायकत्व मितरेषाम तोऽनैकान्तिकेऽपि स्फुटं व्याप्तिविघटनतयोपाधिरेव उद्भाव्येत न त्वनैकान्तिकत्वमित्यर्थः । तर्हि व्यभिचरित एव

न्यायलीलावतीप्रकाशः

निमित्ते व्यवहाराभाव इत्येतावन्मात्रे दृष्टान्तमाह सत्यपीति । तीरघोषयोः प्रवाहसामप्याविशेषऽपि गङ्गाशब्दस्तीरे लक्षणया प्रयुज्यते न घोषे इत्यर्थः । ननु कर्मणो यथा नोदनाभिघातावसमवायिकारणे एवं पूर्वस्थितस्थिरसंयोगोऽपि तथा स्यादित्यत आह कर्मणीति । स्यादेतदिति । एतदन्वयिहेतुत्वेन साधर्म्यव्युत्पादनं तदा स्याद्यद्यन्वयी हेतुः स्यादित्यर्थः । नचैवमिति । पंचरूपसम्पत्तेरनुमानाङ्गत्वात् केवलान्वयिनि च विपक्षव्यावृत्तिवैकल्पात्, अन्यथा रूपान्तरविकलस्यापि गमकतापत्तेरित्यर्थः । नन्वनौपाधिकः सम्बन्धोऽनुमानाङ्गं, स चास्त्येवेत्यत आह अनुपाघित्वस्येति । विवृततात्पर्यमेतद्

न्यायलीलावतीप्रकाशविवृतिः

पचारिकत्वं प्रकृते नास्तीत्यत आह एतावन्मान इति । अभिप्रायिकं पक्षमभिप्रायवशादेव प्रवर्त्तते व्यवहारार्थ चेदं लक्षणं न तु स्वकृत-