पवनवत् । अन्यथा कर्मापि नानुमीयेत, अदृष्टविशेषादेव संयोगविभागोपपत्तेः ।
स्पर्शस्तु तत्कार्यजातीये उद्भूतस्पर्शतया व्याप्तः । स च निवर्तमान: तमादायैव निवर्तते । ततो रूपरसगन्धादयोऽणूनां कार्यैकलिङ्गगम्याः सन्त [१] स्तल्लिङ्गानुपलब्धेरेवा सन्तोऽवधार्यन्ते ।
न्यायलीलावतीकण्ठाभरणम्
ति । मनसीति शेषः । अद्दष्टवदात्मसंयोगेनान्यथासिद्धौ कर्म्मपि न स्यादित्याह अन्यथेति ।
मनसि स्पर्शोऽपि स्यादिति परिहरति स्पर्श इति । मनो यदि परमाणुत्वे सति स्पर्शवत् स्यादुद्भूतस्पर्शवत्कार्थ्यजनकं स्यात्, मनस्त्वं यदि स्पर्शसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिः स्यात उद्भूत स्पर्शसमानाधिकरणा स्यात् इति वा तर्कोऽत्र बाधकः । कार्य्यरूपत्वादिकमेव हि कारणरूपादौ मानमित्याह तत इति । मनो यदि स्थूलद्रव्यमारभेत तदा ज्ञानयोगपद्यं स्यादित्येकदोशमतं दूषयति
न्यायलीलावतीप्रकाशः
वेगश्चेति । यथा पवने अदृष्टजन्यक्रियाविलक्षणक्रियाजनकत्वेन वेग सिद्धि तत्र वेगस्य हेतुत्वावधारणात् तथा मनस्य पीत्यर्थः ।
अन्यथा स्पर्शस्याप्यनुमानापत्तरित्यत्र बाधकमाह स्पर्शस्विति । मनसः स्पर्शवत्वे स्पर्शवतश्च परमाणोरारम्भकत्वादारव्वयोद्भूतस्पर्शस्योपलम्भलक्षण प्रतिकूलतर्कतीघातान्न तत्र स्पर्शानुमानमित्यर्थः । ननु कार्यनिष्ठस्पर्शो न कारणस्पर्शव्यापक, किन्तु व्याप्यः, न व्यायनिवृत्या व्यापकनिवृत्तिः । मैवम् । स्पर्शसमाना धिकरणद्रव्यत्वसाक्षायाप्यजाते रवयवियोग्य स्पर्शसामानाधिकरण्यव्याप्यत्वमिति विवक्षितत्वात् । मनसः स्पर्शवत्वे कार्यद्रव्यारम्भकत्वात् कार्यद्रव्यस्य कारण सजातीयत्वनियमेन मनस्त्वे युगपज्ज्ञानोत्प
न्यायलीलावतीप्रकाशविवृतिः
प्रतियोगिक कारणतावच्छेदकावच्छिन्नत्वमर्थ इत्यवधेयम् । अदृष्टजन्येति । अस्त्यूदूर्ध्वगमनक्रियेत्यर्थः ।
स्पर्श सामानाधिकरणेति । प्रभात्वादौ व्यभिचार इति साक्षात्पदम् । अवयविपदं स्थूलतरावयविपरम् | योग्यपदं च उद्भूतपरम्,
- ↑ सन्त इति नास्ति प्रा०प० ।