सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०५
'न्यायलीलावतीकण्ठामरण-सविवृतिप्रकाशोद्भालिता


न च मनसः तदारम्भे स्थवीयस्तया युगपन्नानाज्ञानोत्पत्तिरिति वाच्यम् । अवयविन इन्द्रियभावाभावात् । न च परत्वादिकं ब्योम्नि, परबुद्धिव्यपदेशस्यावच्छिन्न एव [१] सम्भवात् पृथवत्ववत् । न च नित्यमहत्ववदपरिमितेऽपि परिमाणव्यवहारादत्रापि परापरव्यवहार इति वाच्यम् । महबुद्धिवेद्यस्य परिमाणत्वात् । अस्य चावान्तरावच्छेदाप्रतिभासेऽपि [२] भूगोलकमहत्त्वव त्परिमाणोपत्तेः, अन्येभ्योऽपि महानिति बोधोपपत्तेः । प्रकृते त्ववधिविरहाव्घपदेशानुपपपत्त्या परबोधस्थापि तत्तुल्यविषयस्यानुपपत्तेः । न च भूतत्वम् त्र्प्रर्थत्ववदुपाघिसामान्यबोधेनैवोप-


न्यायलीलावतीकण्ठाभरणम्

अवयविन इति । गगनादी परस्यापरत्वे शङ्किते निराचष्टे न चेति । मूर्त्तमेवावधि कृत्वा मूर्त्तेष्वेव देशिकयोः परत्वापरत्वयोरुत्पादनियमा न्न ते गगनादावित्यर्थः । यथा मूर्त्तत्वं तिरस्कृत्य परिमितव्यवहारस्तथा परापरव्यवहारोऽपि स्यादित्याह नित्येति । महदाकाशमिति बुघ्घा परिमाणमेव विषयी क्रियते यथ मूर्त्तमविषयकृत्यापि भूगोलक इत्याह महदिति । परापरव्यवहा रस्त्ववधि मन्तरेण न सम्भवति तत्समानविषयस्तत्त्वेऽपि न गगनादौ भवतीत्याह प्रकृतेऽपाति । यथा समान्यवत्यनुपदस्विभाषा तथा बाह्येन्द्रियग्राह्यजातीय विशेषगुणवत्व-

न्यायलीलावतीप्रकाशः

त्तिः स्यादिति कस्यचिन्मतमपनयति न च मनस इति । अवयविनो मनोजन्यस्येत्यर्थः । मनोग्राहकमाना ल्लाधवसहक्कृतान्निरवयवस्यैव मनस्त्वसिद्धेरिति भावः । कालकृते परत्वापरत्वे जन्मनियते व्योम्नि न सम्भवत इति दिक्कालयोर्बाधकमाह न च परत्वादिकमिति । यत्रावधिना लह संयोगो न भवति तत्रैव दिक्कृतं परत्वं वर्त्तते, अत्र चावधे रपि व्योमसंयोगित्वान्न तथेत्यर्थः । अवधिनिरूप्यत्वमात्रे दृष्टान्तमाह पृथक्त्ववदिति । यद्वा व्यतिरेकदृष्टान्तोऽयम्, पृथक्त्वं चान्योन्याभावप्रतियोग्येवावधिरिति पृथक्त्वं यथा व्योम्नि तथा न परत्वमित्यर्थः ।

न्यायलीलावती प्रकाशविश्वतिः

तेन नेष्टापादनशङ्का । सामान्यतो व्यभिचारदाह मनोजन्य-


  1. ↑ सावधेरेवेति मा० पु० पाठः
  2. ↑ चावच्छेदा प्रतिभासपीति प्रा० पु० पाठः ।