सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्मनसः [] , कथमन्यथा सुखायुपलब्धि साधकतमत्वम् एकैकशो व्यभिचारात् । अणुत्वात्मसंयोगिताकारस्या साधकतमसाधारण्यात् । कर्णशष्कुलीवद्विशिष्टादृष्टोपगृहीतस्येति चेन्न। अनेकत्वे सत्यसाधारणसाक्षात्कारिप्रमा कारणतया [] ऽवान्तरजातिमत्ताया नियमात् । वेगश्राशुसंचारभेदस्य वेगहेतुत्वेन प्रतिबन्धावधारणात्


न्याय लीलावती कण्ठाभरणम्

खाघुपलब्धिकारणतावच्छेदकतयापि तत्कल्पनीयमित्याह अन्यथेति । तदणुत्वेनात्मसंयोगित्वेन वाऽवच्छिद्यतां कि मनस्त्वेनेत्यत आह एकैकश इति । पार्थिवादिपरमाणुषु घटपटादिषु च तदतिप्रसक्तं न सुखोपलब्धिकारणतावच्छेदकमित्यर्थः । विशिष्टादृष्टोपगृहीतयोस्तयोरेवावच्छेदकत्वं स्यात् किं मनस्त्वेनेति शङ्कते कर्णेति । सुखसाक्षात्कारकारणतावच्छेदकत्वेन मनस्त्वकल्पनमावश्यकम् । न च शब्दसाक्षात्कारकारणतावच्छेदकतया श्रोत्रत्वमपि जाति: स्यादिति वाच्यम् । तस्य पुरुषभेदेऽध्येकत्वात्, अतएवोक्तमनेकत्वे सतीति । वेगश्चे-

न्यायलीलावतीप्रकाशः

गुणवस्वमुपाधिरित्यत आह कथमिति । विपक्षे बाघकात् साधनस्य साध्यव्याप्यत्वेन तव्यापकतयोपाधेः साध्याव्यापकत्वादित्यर्थः । ननु सुखाद्युपलब्धि साधकतमत्वावच्छेदे सत्यात्मसंयोगित्वमेव स्यादित्यत आह अणुत्वेति । विशिष्टेति । विशिष्टादृष्टोपगृहीतत्वमेव तदवच्छेदकं स्यादित्यर्थः । अनेकवे सतीति श्रोत्रव्यावर्त्तनार्थम् ।

न्यायलीलावतीप्रकाश विवृतिः

प्रत्यक्षजनकतावच्छेद कजातित्वं च व्यापकतावच्छेदकमत एव मूले तदनुसारेणैव विपक्षबाधकमुक्तम् । पवश्च मूले हेतौ श्रोत्रपरमाण्डोर्यावर्त्तनाय विशेषणद्वयमिति मन्तव्यम् । उद्भूतत्वमादाय प्रत्यक्षजनकतावच्छेदकजातिमत्त्वं गुणेऽपि रूपादाविति साध्याव्यापकत्वमयादाह साधनावच्छिन्नेति। मनो द्रव्यत्वापरजातिम दिति साध्ये श्रोत्रे व्यभिचार हात सत्यन्तमित्याह अनेकत्वे सतीति । अनेकत्वं स्वसमानाधिकरणस्वान्योन्याभावप्रतियोगिवृत्तिद्रव्यविभाजकधर्मवस्वम् । मूलेऽसाधारणप्रमेत्यादेः प्रत्यक्षमात्रवृत्तिकार्यता-


  1. जातिम एवं मनसः मु० पु० पाठः ।
  2. प्रमालाक्षात्कार कारणतयेति प्रा० पु० पाठः ।