सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८०
न्यायलीलावती


स्तम् अन्योन्याश्रयातू तादात्म्यामावे तदभावाच्च । अन्यतायाः स्वानतिरेकान । अमाच त्वस्व चानिरुक्तेः । नास्त्रित्वबुद्धि (१)वद्यत्वं तहिनि चन् । न तस्था आनुगतनिमित्तं विना


न्यायलीलावतीकण्ठाभरणम्

स्वाभावविरोधित्वं वाच्यं तव्च वादात्म्याभाये विरोधिनिरूपके नास्ति तेन समं भावस्य सामानाधिकरण्यादित्याह तादरम्चेति । यद्वा यदि तादात्म्याभावे भावविरोधित्वं भवत्तदा उत्प्रतियोगिनः सकलस्वाभावविरोधित्वं भवेत्तदेव तु नास्तीत्यर्थः । अभावान्यत्वमपि न भावत्वम्, अननुगमादित्वाह अनताय इति नन्वभावत्ववच्छिन्नप्रतियोगिकाऽन्योन्याभाववत्त्वमेव भावत्वं, तथाच नाननुगम इत्यत आह अभावत्वस्थ चेति । यद्वा असावविरोधित्वसमावनिरूप्यं तदेव दुर्वचमित्यर्थः । यक्ष भाव घिरोवित्वं यद्यभावत्वं तदाऽन्योन्याश्रय स्यात् प्रकारान्तरेणैयाभावत्वं नियमित आह अभः- वत्वस्य चेति । अभावत्वं न दुर्वचमित्याह नस्तीति । विषयविशेषमन्तरेण बुद्धिविशेषोऽपि दुर्तिरूप एवंत्वाह नेति । नास्तीतिबुद्धिवद्यश्च-

न्यायलीलावतीप्रकाशः

विरोधित्वस्याप्यनुगतस्य निर्वस्तुमशकयत्नानाविरोधित्वं भावत्वमिति नेत्यर्थः । अभावविरोधित्व यदि यत्किञ्चिदमावविरोधित्वं तत्राह अन्योन्येति । अभावनिरूपणाचीनतद्विरोधित्वरूरभावस्व प्रतियोगिदेशसमानकालतया न तेन यावदनावविरोधो निरूप्यन इत्यर्थः । ननु चाभावान्यतामात्रं भावत्वं न तु विरोधित्वे सतीत्यत आइ अन्यताया इति । अभावादन्येषां घटादिस्वरूपाणामननुगमाइनुगतभावव्यवहारानुपपत्तिरित्यर्थः । ननु न भावविरोधित्वमभावत्वं येनान्योन्याश्रयः स्यात्, किन्त्वन्यथा निर्वाच्यमत आह अभावत्वस्य चेति । तदितीति । अभावत्वमित्यर्थः । तस्या इति । बुद्धेरपि विशेषो विषयाधीन

न्यायलीलावतीप्रकाशविकृतिः

न्याभावस्थाधिकरणात्मकत्वादित्यर्थः । यदि चेति । यद्यभावान्योन्याभावो मिन्नः स्वीकार्यस्तदा घटानावान्योन्याभावोपि भिन्न इति भावामावयोः परस्परविरहरूपताभङ्ग इत्यर्थः । तदान्योन्याभाव इति (१)[१] ।


  1. ↑ नास्तीतिबुद्धि - प्रा० पाठः