सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७९
न्यायलीलावतकण्डाभरण मविवृतिप्रकाशोद्भासिता


तस्याप्यामिद्धे भावोऽयमितिबुद्धिविषयत्वं तदेति चेन्न । तस्याप्यनुगनस्यामिद्धे: [१], ज्ञानो भाव इत्यप्रत्ययाच्च । अभावव्यावृत्तत्वमस्तित्वमिति चेन्न । स्वरूपस्थ व्यावृत्तत्वात् तद्भावयोगित्वस्य परस्पराभावरूपताहन्तृत्वात् । एतेन विरोधित्वमपा-


न्यायलीलावतीकण्ठाभरणम्

अभिधेयत्वज्ञेयत्वाभ्यां सामानाधिकरण्यं न स्यात्, तथापि तयोरभाववैधर्म्यपरत्वेन व्याख्येयत्वादिति भावः । तस्यापीति । भावत्वस्थापीत्यर्थः । ज्ञात इति । यदि ज्ञानघटितं भावत्वं तदा ज्ञातो भाव इति सह प्रयोगो न स्यादित्यर्थः । स्वरूपस्येति । अमावव्यावृत्तत्वं यदि भावानां प्रत्येकं स्वरूपमेव तदाऽननुगम इत्यर्थः । व्यावृत्तत्वमननुगतत्वम् । तद्भवेति । अभावाभावयांगित्वं यदि भावत्वं तदा भाव वृत्तिरभावः स्यान तु भाव एव, तथाच भावाभावयोः परम्पराभावरूपता व्याहन्येतत्यर्थः । एतेनेति । विरोधित्वस्य स्वरूपत्वेऽननुगमोऽभावाभावत्वे च परस्पराभावरूपताव्याघात इत्यर्थः । किञ्च भावत्वमपि

न्यायलीलावतीप्रकाशः

स्तित्वाभावासमानाधिकरणाभिधानविषयत्वज्ञानविषयत्वयोरत्र विवक्षेति मन्तव्यम् । भावत्वमात्र मेवाभावव्यावृत्तं साधर्म्यमिति व्यर्थविशेष्यत्वमिति दूषणे सत्येवाह तस्यापीति । तस्यापीति । ज्ञानार्थयोः स्वरूपातिरिक्त सम्बन्धाभावात्तयोश्चाननुगतत्वादित्यर्थः । बुद्विविषयत्वान्तर्भावेण भावत्वे भावत्वग्रहे र्बुद्धिविषयत्वग्रहनियमात् सहप्रयोगः पृथक्धर्मद्वयानुभवश्च न स्यादित्याह ज्ञात इति । अभावव्यावृत्तत्वं घटादे: स्वरूपमननुगतमभावाभावस्य भावानतिरेकादित्याह स्वरूपस्येति । व्यावृत्तत्वादननुगतत्वादित्यर्थः । यदि चाभाषाभावयोगित्वं भावत्वं तदा भावाभावाभ्यामतिरिक्तमभावाभाववत्वमुक्तं स्यात्, तथाच मिथोविरहरूपत्वं तयोर्व्याहन्येतेत्याह तदभावेति ।

न्यायलीलावतीप्रकाशविवृतिः

त्वजेयत्वयोरव्यभावव्यावृत्तयोरेवात्र विवक्षेत्यस्तित्वेऽपि तव्यावृ त्तिरावश्यकीति भावः । भावत्वमात्रमेवेत्यादिफक्किका द्वितयिस्य तस्यापीति मूलस्याभासः । अभावाभावस्येति । अभावान्यो-


  1. ↑ स्यामाबाद- मा० पु० पाठः ।