सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७७
स्थायलीलावतीकण्टाभरण- सविवृतिकाशोहालिता


स्वस्वसामान्ययोगः विधिभावनाहेतुक आत्मविशेषगुणो धर्मः । निषिद्धभावनाहेकवाघर्मः श्रोत्रग्राद्योऽथः शब्दः । शास्त्र एत्व चैवमादि सुप्रसिद्धमिन्यास्ताम् ॥

 इति श्रीन्यायलीलावत्यां वैषम्यपरिच्छेदः समाप्तः ॥


न्याय लीलावतीकंठाभरणम

त्यर्थः विधिभावनेति । वितियागादिगांवरः प्रयत्नो विधिभावना, एवं निषिद्धकल जमणादिगोचरः प्रयत्नः निषिद्धभावना, सुखासाधारणकारणत्वं धस्मत्वं, दुःखासा धारणात्मगुणत्वमघर्म्मत्वम् । श्रोत्रेति । क्ष्रोत्रग्राह्यत्वं शदवादावतिव्याप्तमन अर्थ इति । वैशेषिकसमयेनार्थपदवाच्य इत्यर्थः । न चान्त्याव्याप्तिः, श्रोत्रमात्रग्राह्यजातिमत्त्वस्य विवक्षितत्वात् । वैधर्म्यान्नगनभिधाने हेतुमाह शास्त्र एवे ति। कणाहरदस्ये वादिविनोदे व लक्षणान्युक्तान्यतोऽत्रास्माभिरनुक्तानि ।

न्यायलीलावतीप्रकाशः

विधिभावनेति । गुणत्वव्याप्यातीन्द्रियजातिमत् सुखसाधनं धर्मः । एतदेव सुखपदस्थले दुःखपत्र प्रक्षेपेणावर्मलक्षणम् । श्रोत्रेति । श्रोत्रमात्र ग्राह्यजातिमानित्यर्थः । अतो न सत्तागुणत्वयोरतिव्याप्तिः, अयशब्दे च नाव्याप्तिः । उक्तवैवर्म्याणामनुपादाने हेतुमाह शास्त्रएवति ॥

न्यायलाली वतीप्रकाशविवृत्तिः

व्याममित्यन्यथा व्याचष्टे गुगत्वेति अत्र मनस्यतिव्याप्तिवारणाय गुणत्वव्याप्येति, गुणत्वसमानाधिकरणेत्यर्थः । शब्दातिव्याप्तिवारणायातीन्द्रियेति अन्यतरत्वमादाय मनस्यैवातिव्याप्तिरिति जातिपदम् । भावनाया मतिव्याप्तिरिति सुखसाधनमिति । न च सुखसाधनीभूत गुरुत्वेऽतिव्याप्तिस्न३त्यत्वेनापि विशेषणात्, लीलावतीकारमते तु तस्य त्वगिन्द्रियग्राह्यत्वादीन्द्रियपदेनैव निरासः । एतदेवेति । अत्रापि गुरुत्ववारणं पूर्ववदेव । श्रोत्रमत्रिति । सत्तामाहायातिव्याप्तिवारणाय मात्रपदं ग्राह्यान्तं च जातिविशेषणमन्यथाऽन्त्यशब्दाव्याप्तस्तथाचास्तित्वशङ्कायोग्यमपि न भवतीति भावः ।