दाहरणम् । तस्य साध्ये उपसंहार: उपनयः । पुन: पक्षवचनं
निगमनम् । वादादिकमन्यत्र सुखादिपञ्चकस्य स्वस्वसामान्ययोगः | पतनासमवायिनिदानं गुरुत्वम् । द्रवत्वादीनां त्रयाणां
न्यायलीलावतीकण्ठाभरणम्
यवत्वं साध्यप्रानयोर्गक साधनानष्ठव्याप्त्युपदशर्कन्यायावयवत्वमन्वय्युदाहरणं, साधनाभावप्रतियोगिक साध्यामाववन्निष्ठव्याप्त्युपदर्शकन्यायावयवत्वं व्यतिरेकोदाहरणत्वम् तेन दृष्टान्तपदे नातिव्याप्तिः । दृष्टान्तवचनस्य सामयिकत्वेन तद्धीनोदाहरणे च नातिव्याप्तिः । तस्येति । हेनोरित्यर्थः । चरमलिङ्गपरामर्षा न्यूनानतिरिक्तविषयकशानजनकन्यायः वयवत्वमुपनयत्वमित्यर्थः । पुनरिति । उपसंहतहेतुप्रयुक्तत्वेन पक्षं साध्यवैशिष्टयोपदर्शकन्यायावयवत्वं निगमनत्वम् । वादादिविलक्षणप्रणयने हेतुमाह - वादादिकामेति । समानतन्त्रमेव तद्ब्राह्यमित्यर्थः सुखदुःखच्छाद्वेषप्रयत्नानां सुखत्वादिकमेव लक्षणमित्याह-सुखादीति द्रवादीनामिति । द्रवत्वस्नेहसंस्काराणामि-
न्यायलीलावतीप्रकाशः
त्वप्रतिशदकेत्यर्थः । यथाश्रुतं घटात् रूपमित्यत्रातिव्याप्तमिति पूर्वनिरुक्तमेव हेतुलक्षणं ग्राह्यम् एवमुदाहग्णलक्षणं दृष्टान्तपदे न्यायं विना दृष्टान्ताभिधाने चातिव्याप्तमिति तद्प्युक्तमेव ग्राह्यम् । तस्येति । साध्यव्याप्यसाध्यासावव्यापकाभावप्रतियोगिनोरन्यतरस्येत्यर्थः । तल्लक्षणमपि प्रागेव निरुक्तम् । पुनरिति । येन रूपेण प्रतिज्ञागतस्य साध्यभागस्य पूर्वमुपस्थितिस्तेनैव रूपेण तस्य पुनर्वचनमित्यर्थः । यथाश्रुतस्य स्वरूपासिद्धेः, तस्माइनित्य इत्यत्र निगमने पक्षस्य पुनरभिधानात् । वादादिकामेति । अन्यत्र न्यायनये व्युत्पादितमिति शेषः ।
न्यायलीलावतीप्रकाशविवृतिः
र्त्तकनिश्चयेत्यर्थः । व्यतिरेकिसागरण्यार्थमाह साध्यव्याप्येति । तस्मादनित्य इति । यद्यप्यनित्य इति विशेषेणं विशेष्यं विनाऽनन्त्रितमिति विशेष्यवचनमावश्यकं, तथाप्युपनयस्थनैवायमितिपदेनान्वयसम्भवान्न तद्वचनमपीति कथकसम्प्रदाय इति भावः । यथाश्रुतं सुखेति-