साघर्म्यतुत्वयिहेतुत्वेनात्मतत्वावबोधकत्वात्तत्परिच्छेदोज्यमारभ्यते । पण्णामस्तित्वम् । किं तत ? अस्तिशब्द [१] वाच्यत्वमिति चेन्न अभावेऽपि तुल्यन्धान । भावत्वं सतीति चैन्न ।
न्यायलीलावतीकण्ठाभरणम्
साधर्म्सेनि । इच्छा द्रव्याश्रिता गुणत्वादिति चतुर्विशतेर्गुणानां गुणत्वं साधर्म्यमात्मसाधकम् एवं वाक्यगतं वाक्यत्वं साधर्म्ये वेदपौरुषेयत्वसाधकम् कार्यत्वं च क्षित्यादिसकर्तृत्व साधकम् । वैधर्म्यमपि कतिपयापेक्षया साधर्म्ये चात्मसाधकं, साधर्म्यान्तरस्य प्रसङ्गात् निरूपणपरस्परात्मसाधकतया वेति द्रष्टव्यम् । तत्र षण्णामस्तित्वमभिधेयत्वं चेति भाग्यमाक्षिपति किन्तदिति । यदपि पदार्था अस्तिपत्राच्या इति तत्पदवाच्यत्वमेवास्तित्वमित्याह अभावेऽपीति । अभावोऽस्तीति प्रयोगदर्शनादिति भावः । यदपि नैतदभाववैधम्मयमपि तु षण्णां साधर्म्यमन्यथा
न्यायलीलावती प्रकाशः
आत्मतत्वस्येति । यद्यप्यात्मविषयकानुमानस्यैव साधर्म्यस्यात्मतत्वज्ञानोपयोगित्वं न सर्वस्य तथापि साक्षात्परम्परया च सर्वेषा मेव तथात्वम् । अस्तिशब्देनि । नन्वस्तिपदवाच्यत्वमस्तित्वस्य नार्थः त्वप्रत्ययम्य प्रवृत्तिनिमित्तत्वाचाचकत्वात् अस्तिशब्दवाच्यत्वस्य वाऽस्तिशब्दाप्रवृत्तिनिमित्तत्वात् । अत्राहु: । यद्यस्तिपदेनास्तिपदवाच्यत्वं लक्षणयोच्यते तदास्य पक्षस्य सम्भवः । अभावेऽपोति । भूतले घटाभावोस्तत्यिनुभवादित्यर्थः । यद्यपि षण्णामिदं साधर्म्य न स्वभावापेक्षया वैधर्म्यम् अन्यथाऽभियत्वज्ञेयत्वयोरप्यस्य दोषस्थापत्तेः षण्णामस्तित्वाऽभिधेयत्वज्ञेयत्वानीति त्रयाणां तुल्य वत्साधर्म्यरूपत्वेनाऽभिधानात्, तथाप्यभिधेयत्वज्ञेयत्वाभ्याम
न्यायलीलावतीप्रकाशविवृतिः
सम्भव इति । प्रकृतिजन्य प्रतीतिप्रकारस्यैव त्वप्रत्ययवाच्यत्वादन्यथा दण्डत्वादावगनेरितिभावः भूतल इति अस्तीत्येवमाकारकस्यामिलापस्यानुभवाहित्यर्थः । तथापीति । तथाचाभिधेय-
- ↑ अस्तीति शब्देति प्रा० पु० पाठः ।