सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


 रूपादीनां चतुर्णा स्वस्वसामान्यम्, न तु नयनादिग्राह्यता, अतीन्द्रिये तदभावान्, योग्यताया अनुगताया उक्तानतिरे कात् । गणनव्यवहारप्रयोजिका संख्या । परिमाणं मानव्यवहारयोगि[१] । पृथगिति बुद्धेरमाधारणो विषयः पृथक्त्वम् । कार्य:


न्यायलीलावतीकण्ठाभरणम्

 त्वस्वसामान्य रूपत्वरसस्वादि । उक्तानतिरेक दिनि । चक्षुर्ग्रहणयोग्यतावच्छेदकं रूपत्वमेव वाच्यमित्यर्थः । एवमन्यत्रापि । गणनव्यवहारहेतुश्च संख्यात्वव्यवहारहेतुस्तेन संख्यात्वमेव विवक्षितम्, अन्यथा प्रत्येक समुदायविवक्षायामव्यात्यसिद्धी स्याताम् । अवध्यनिरूप्यत्वे सत्येकमात्रवृत्तिवृत्यनेकव्यावृत्तगुणत्वव्याप्यजातिमत्त्वं लक्षणमिह विवक्षितम् । परिमाणत्वमिति । परिमाणत्वजातियोगित्वमित्यर्थः । पृथगिति । अवध्यनिरूप्यत्वेनाविशेषितं संख्यालक्षणभाग एव पृथक्त्वलक्षणम् । कार्घ्य इति । द्रव्यासमवायिकारणवृत्ति-

न्यायलीलावतीप्रकाशः

 त्वस्वसामान्यमिति । रूपस्य रूपत्वं रसस्य रसत्वादीत्यर्थः । ननु तत्र मानाभावः नयनग्राह्यत्वादिभिरुपाधिभिरव रूपत्वादिव्यवहारोपपत्तेरित्यत आह नत्विति । योग्यताया इति । चक्षुर्ग्रहणस्वरूपयोग्यतावच्छेदरूपस्य जात्यनतिरेकादित्यर्थः । गणनेति । यद्यपि द्वित्त्वादिव्यवहारजनकं भागासिद्धं, समुच्चिततज्जनकत्वं च स्वरूपासिद्धम, तथापि संख्याव्यक्तिविषयव्यवहारजनकज्ञानवृत्ति कारणतावच्छेदक रूपवत्वं, ज्ञाने च कारणत्वं विषयवृत्तिधर्मावच्छेद्यमिति जातिर्लक्षणम् । असाधारण इति । यद्विशिष्टे द्रव्ये पृथगिति धीरित्यर्थः । अनेन जातिविशेषोऽभिप्रेतः । कार्य इति । विभागाजन्याद्यशब्दासमवायिकारणवृ-

न्यायलीलावतप्रकाशविवृतिः

मत आह ज्ञाने चेति । तथाच ज्ञाने परस्परासम्बद्धं सङ्ख्यात्वं कार णतीवच्छेदकं विषये च साक्षात्सम्बन्धेन लक्षणमिति भावः । पृथक्त्ववृत्तिजातावतिव्याप्तेराह यद्विशिष्ट इति । धियोऽपि विषयविशेष एव व्यावर्त्तकोऽत आह अनेनेति । घटध्वंसवत् कपालमित्यत्र स्वरूपसम्बन्धेऽतिव्याप्तेराह विभागाजन्येति । एतच्च विशेषणं विभागा-


  1. ↑ मानत्क्योगीति मा० पु० पाठः । परिमाणत्वयोगीति च मिश्रसंमतः पाठः ।