अरूप: स्पर्शचान्यवनः [१]शब्दाक्ष्रय आकाश: [२] । अनावरणपरत्वापरत्वा घसमवयिनिदान संयोगाक्ष्रयो विभुः कालः । न च
परत्वानुमेयः, नदम्य कारणा नामपि कार्योन्यन्वान् । उक्तसंयोगानाधारो विभुर्विशेष गुणरहिता दिक् । ज्ञानाधार आत्मा ।
अस्पर्शपरमाणुर्मनः ।
न्यायलीलावनीकण्टाभरणम्
विवक्षिते तेन न दिश्यतिव्याप्तिः । पिण्डातिव्याप्तिवारणायाह विभु- रिति । तदन्यकारणानां कालपिण्ड लयोगानां तयाच तत्रातिब्याप्तिः स्यादिति भावः । उक्तइति । सूर्यकिवाविषयक। पेक्षाबुद्धिजन्यपरत्वापरत्वजनक संयोगानाधार इत्यर्थः । तथाच संयुक्त संयोगविषयकापेक्षाबुद्धिजन्यपरत्वापरत्वालनवाधिकारणसंयोगाधारविभुत्वं सिद्धमित्यर्थः । ज्ञानाधारवं ज्ञानात्यन्ताभावानाधिकरणत्वं विवक्षितम्, अत्यन्ताभावश्च ज्ञानत्वावच्छिन्न प्रतियोगिको ग्राह्यः । अस्पर्शत्वं स्पर्शात्यन्ताभावचत्वं, तेन पार्थिवपरमाणौ क्षणमस्पर्शे नातिव्याप्तिः ।
न्यायलीलावतीप्रकाशः
एवमग्रेऽपि । भास्वरत्वं जातिविशेषः । परत्वापरत्वासमवायिकारणसंयोगाश्रयत्वं दिशोऽध्यस्तीत्यत उक्तमसाधारणेति । ज्यैष्ठ्यकानिष्ठ्यरेत्यर्थः । दिशस्तत्र कारणत्वेऽपि न तत्संयोगः पिण्डवर्त्ती कारणमिति न तत्रातिव्याप्तिः । विभुरिति पिण्डव्यवच्छेदः । तदन्यकरणानामिति । कालातिरिक्तानामित्यर्थः । उक्तसंयोगति । परत्वापरत्व विशेषासमवायिकारण संयोगानाधार इत्यर्थः, तेन काले नातिव्यासिः । ज्ञानाधार इति ज्ञानसमवायित्वमात्रं, न तु ज्ञानसमवायिकारणत्वमपि विवक्षितमीश्वरात्मन्यव्याप्तेः ।
न्यायलीलावतीप्रकाश विवतिः
परमाण्वादावव्याप्तिरित्यत आह भास्वरत्वमिति । नन्वाधारत्वं प्रकारस्वविशेष इति ईश्वरात्मन्यव्याप्तिरत आह ज्ञानसमवायित्वेति ।
ननु ज्ञानवृत्ति यत्कारणतावच्छेदकं तद्वत्वं कथं सङ्ख्याया-