सम्बन्धः संयोगः । यद्विशिष्टे विभप्रत्ययः स विभागः । एवं
परन्वापरत्वे ।
अर्थप्रकाशो बुद्धिः । अर्थ: स्वाभाविको विषयः, तेन सद्दैव प्रकाश्यत इति । सा चाविद्या विद्या च । मिथ्याज्ञानमवि-
न्यायलीलावतीकण्ठा भरणम्
गुणत्वव्याव्यजातियोगिन्वं संयोगत्वम् । यद्विशिष्ट इति । संयोगनाशकगुणत्वं, संयोगान्याघशब्दासमवायिकारणवृत्तिगुणत्वव्यायमत्त्वं वा विभागन्वम् एवं परत्वापरत्व इति । यद्विशिष्टे परापरबुद्धिरित्यर्थः । इहापि जातिविशेष एव लक्षणमिति भावः ।
प्रकाश इहापि । इहापि त्रुद्धित्वं जानिर्लक्षणमित्यर्थः । तेनेति । अर्थनिरूपणाधीननिरूपणत्वमर्थसहनिरूपणत्वमित्यर्थः । मिथ्याज्ञानमिति ।
न्यायलीलावतीप्रकाशः
त्तिगुणत्व साक्षायाप्यजातिमानित्यर्थः । यद्विशिष्ट इति । उत्पन्नमात्रकर्मजन्यगुणवृत्तिगुणत्व साश्चाद्याव्यजातिमानित्यर्थः । एवमिति । अत्रापि जातिविशेषो लक्षणमित्यर्थः ।
अर्थप्रकाश इति । यद्यपि यथाश्रुतं पर्यायत्वान्न लक्षणं, तथापि बुद्वित्वं जातिरनेनोपलक्षितम् । एतेन प्रकाशो यदि ज्ञानमात्रं तदा ज्ञानादिशब्दैरर्थनिरपेक्षैरपि बुद्धे प्रतिपादनादसिद्धि, अथ साक्षात्कारस्तदा निर्विकल्पकाव्याप्तिस्तस्यातीन्द्रियत्वादित्यपास्तम् । मिथ्या-
न्यायलीलावती प्रकाशविवृत्तिः
तिव्याप्तिवारणाय । शब्दातिव्याप्तिवारणायाद्येति । अदृष्टेऽतिव्याप्तेः समवायिपदम् । सत्तामादायातिव्याप्तेराह गुणत्वव्याप्येति । साक्षात्पदं भेदलाभाय । गन्धसंयोगान्यतरत्वमादाय गन्धातिव्याप्तेराह जातीति । बुद्धेरपि विषय एव व्यावर्त्तक इत्यभिप्रायेणाह उत्पन्नमन्त्रिीत । संयोगातिव्याप्तेराह मात्रेति सुखसाक्षात्कारातिव्याप्तेराह कर्मेति । गुणवृत्तिपदं गुणवृत्या समवायेन व्याप्यत्वलाभाय । सत्तादावतिव्याप्तेराह गुणस्वव्याप्येति । भेदलाभाय साक्षादिति । विभागजविभागसङ्ग्रहाय जातिगर्भता । यद्यव्येवमपि वेऽतिव्याप्तिस्तथापि सकलकर्मजन्यो, विभागस्तु तथा, लक्षणं च तथा विवक्षितमिति भावः ।
एतेनेति । अर्थेन सदैव प्रकाश्यत इत्यत्रेति शेषः । वस्तुतो