मेकमनेकवृत्ति सामान्यम् | एकद्रव्याः स्वभावसन्तो विशेपाः । नित्यः सम्बन्धः समवायः ।
गन्धवती पृथिवी | स्नेहवत्य आपः । भास्वररूपं तेजः ।
न्यायलीलावतीकण्ठाभरणम्
मनकेपामनकवृत्तित्वात् इत्येकं लक्षणमित्यपव्याख्यानम्, वैयर्थ्यतादवस्थ्यात् । अलमत्रायित्व सत्यनेक लमवेतत्वं तु तल्लक्षणम् । स्वभावसन्त इति । सत्ताशून्या इति । निःसामान्यत्वे सत्येकैक द्रव्यमात्रवृत्तित्वं विशेषत्वमिति भावः । नित्य इति । निःसामान्यसम्वन्धत्वं नित्यसम्बन्धत्वं वा समवायत्वम् । स्वरूपसम्बन्धेनौपचारिक सम्बन्धपदप्रयोगः ।
गन्धवतीति । गन्धात्यन्ताभावानधिकरणेत्यर्थः । आकाशपर्यन्तमेवं व्याख्येयम् । परत्वापरत्वे तपनपरिस्पन्दविषयापेक्षा बुद्धिजन्ये
न्यायलीलावतीप्रकाशः
चासमवायित्वे सत्यनेक समेवतत्वम् । अनेकवृत्तित्वं च स्वाश्रयान्यो न्याभावसामानाधिकरण्यम् । एकद्रव्या इति । निःसामान्यत्वे सत्येकद्रव्यमात्रवृत्तय इत्यर्थः । नित्य इति । सामान्यत्व विशेषत्वशून्यत्वे सति जातिशून्यस्समवाय इत्यर्थः ।
गन्धवतीति । अत्रापि पूर्ववदत्यस्तायोगव्यवच्छेदे तात्पर्यम् ।
न्यायलीलावतीप्रकाशत्रिवृति:
न्याद्यतिव्याप्तिरिति सारम् । असमवायित्व इति । समवायवृत्त्या अना धारत्वे सतीत्यर्थः । नन्वनेकत्वं यद्येकत्वानधिकरणत्वं तदा द्रव्यवृत्तिजातावतिव्याप्तिः, अथ द्वित्वाद्यधिकरणत्वं तदा गुणवृत्तिजातावतिव्याप्तिरित्यन्यथार्थमाह अनेकेति । अत्र स्वाश्रयपदं किञ्चित्स्वाश्रयपरम् । वस्तुतो द्वित्वावच्छिन्ने परमाणुपरिमाणेऽतिप्रसक्तिवारणाय एकपदमिति मूलमेव सम्यगिति मन्तव्यम् । सामान्यातिप्रसक्तिभयेन ब्याचष्टे निःसामान्यत्व इति । अत्रं सत्यन्तेन द्रव्यगुणकर्मणाम् । उत्तरदलेन सामान्यस्य वारणम्, वृत्तिपदं समवायपरमतो न समवायाभावयोरतिप्रसक्तिः । नित्यस्यापीश्वरज्ञानादे: स्वरूपसम्वन्धतयाप्तिव्याप्तेराह सामान्यत्वेति ।
आद्यक्षणाव्याप्तेराह अत्रापीति । ननु भास्वरत्वं परप्रकाशकत्वमिति