सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५६
न्यायलीलावती


दीपांर्घ्वनयनावाच्छन्नीजवत् अन्यथा तद्भ्रान्तत्वापत्तेः । नित्य-


न्यायलीलावतीकण्ठाभरणम्

दित्यर्थः अन्यथेति । बीजत्वावच्छेदनाङ्करं प्रति कर्म्मत्वावच्छेदेन संयोगं प्रति कारणताग्राहकप्रमाणस्य भ्रान्तत्व पत्तेरियर्थः । नित्यमिति। एकं सदनकवृत्तत्यिर्थः । तेनाकाशादिपरिमाणेषु नातिव्याप्तिः, तेषा-

न्यायलीलावतप्रिकाशः

जातिमत्त्वमिति भावः । [१]वस्तुतो विनश्यदवस्यं समवायिकारणमेव म भवति [२]कार्योत्तरकाले सत एव तत्त्वात् । अन्यथेति । कर्महतुताग्राहकमानस्य भ्रान्ततापत्तेः । नित्यावृत्तिसत्तेतरजात्यधिकरणं कर्मेति वा लक्षणम् । नित्यमिति । नन्वऋमिति व्यर्थं व्यावर्त्याभावात् आकाशपरिमाणादेरनेकासमवेतत्वात् । अत्राहु: । एकमिति स्वरूपाभिधानमात्रं नतु लक्षणार्थम् । यद्वा एकं लक्षणमिति योज्यम्, लक्षणान्तरं

न्यायलीलावती प्रकाशविवृतिः

तथापि सत्तामादायातिप्रसङ्गस्य वारकेण मात्रपदेनात्र सत्ताव्याप्यत्वमात्रमभिप्रेतम् नचवं संयोगस्याप्युभ्यासमवायिकारणत्वमिति प्रागेवोक्तमतः संयोगेऽतिव्याप्तिरिति वाच्यम् । स्वजन्यविभागध्वंसक संयोगासमवायिकारणवृत्तिलत्ताव्याप्य जातिमत्त्वस्य विवक्षितत्वात् । केचित्तु संयोगस्य विभागासमवायिकारणत्वमेव नास्ति इति मतेनैवेदमित्याहुः । तन्न उपक्रमावरोधात् । वस्तुतस्तु विनश्यदवस्थामिति । इदं च स्वरूपप्रत्यायनमात्रं न तु प्रकृतोपयोगि कर्मोत्पत्त्यवधिकतृतीयक्षणेऽपि द्रव्यनाशे यथाश्रुतलक्षणाव्याप्तेः। कर्मोत्तरेति । न चात्र मानाभावः, अवयव कर्मसामग्रीसहिताया एवावयविकर्मसामग्रयाः कर्मजनकत्वमिति मतेनैतसिद्धान्तसम्भवादित्यन्यत्र विस्तरः । एवन्तु कार्योत्तरेत्यादि कर्मरूपकार्यापेक्षया बोध्यम् । नित्यावृत्तीति । अत्र सत्तेतरत्वं सत्तासाक्षायाप्यत्वमतो न घटादावतिव्याप्तिः । अन्यतरत्वमादायातिप्रसक्तिरिति जातिपदम्। गुणद्रव्ययोरतिव्याप्तिरिति नित्याबृत्तिपदम्, वस्तुतो नव्यत्यासेनानित्यवृत्तिसत्तेत्तरजात्यनधि करणत्वमर्थः । विशेषनिषेधस्य शेषप्रापकतया सत्तावत्वमपि लभ्यत इति न सामा-


  1. ↑ वस्तुतस्तु इति विवृतिक राभिमतः पाठो बोध्यः ।
  2. ↑ कर्मोत्तरेति वि० सम्मतः पाठः ।