दासः । न चाकून [१] फलऽमिद्धि तस्यापि [२] हेतुस्वभावग्राहकमानविषयीकृतत्वात् तदभावस्य तु सहकारिविरहाधीनत्वात्
न्यायलीलावतीकण्टाभरणम्
नकत्वादित्याह नवति। अदत्तफले- अन्तसंयोगलक्षणफले । तत्रापीति । कर्म्ममत्वावच्छेदेनेव संयोग प्रति स्वरुपयोग्यतायास्तत्रापि सत्त्वा-
न्यायलीलावतीप्रकाशः
वायिकारणत्वमित्यर्थः । ननु संयोगः संयोग इस विभागोयलमवायिकारणमस्तु तत्र तत्कारणत्वम्य प्याप्यपगमात । मैवम् । स्वजन्यविभागध्वंसक समवायिकारणत्वस्य विवश्चितत्वात् । ननु विनश्यदवस्थसमवायिकर्मणि न तदसमवायिकारणत्वमिति तदव्याप्तिरित्यत आह न चकृयेति । हेतुस्त्रभावेति । तत्रापि स्वरूपयोग्यतास्त्येवे त्यर्थः । तदवच्छेदकं च संयोगविभागोभयासमवायिकारणमात्रवृत्ति-
न्यायलीलावतीप्रकाशविवृतिः
अन्यतरत्वमादायाऽन्त्ये सामान्यत्वादिकमादाय प्रलक्तायाः सामन्यादावतिव्याप्तेज्जतिपदेन चारणादिति । सामान्येति । जातिमात्रसमवायीत्यर्थः । अत्र मात्रपदं द्रव्यवारणाय, जातिसमवायिपदं सामान्यादिवारणाय । ननु संयोग इति । विभागस्य संयोगपूर्वकत्वनियमात् संयोगस्य तज्जनकत्वे समनायिकारणप्रत्यासन्नतयाऽसमवायिकारणत्वमपि दुःपरिहरमिति द्वित्त्वविवक्षयापि न निस्तार इति भावः । स्वजन्यविभागेति । कर्मणः प्रथमं विभागस्ततः पूर्वसंयोगनाशस्ततः कर्मण एवोत्तरसंयोग इति क्रमेण भवति कर्मणि लक्षणगमनम्, संयोगस्य स्वव्यवहितोत्तरलक्षण एवं संयोगजनकत्वमिति नोक्तलक्षणसम्भव इति भावः । अत्र शरीरप्रतियोगिक पूर्वदेशविभागनाशकशरीरान्तरसंयोगजनकहस्त तरु संयोगेऽतिव्याप्तिरिति स्वजन्यपदम् । शरीरतरुसंयोगस्यापि प्रतियोगितया स्वध्वंसजनकत्वात्पूर्वातिव्या सिताद्वस्थ्यमिति विभागपदम् । विभागस्यापि प्रतियोगितया स्वनाशकत्वात्कारणाकारणविभागे कार्याकार्यविभाजकेऽतिव्याप्तिप्तिरिति संयोगपदम् । कालाद्यतिव्याप्तिवारणाय समवायिपदम् । तदवच्छेदकं चेति । यद्यपि कर्मत्वस्य विनश्यतद्वस्थकर्मण्यपि वृत्तेरसम्भवीदं लक्षणम्,