सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५४
न्यायलीलावती

वानचलनात्मकः समवायिकारण नाहीनो गुणः । संयोगविभागयोरसमवायिकारणं [१] कर्म, द्वित्वे तात्पर्यम्, तेन संयोगविभागव्यु


न्याय लीलावतीकण्ठाभरणम्

मत्वम, असमवायिकारणवृत्तिकमवृत्तिजातिमत्त्वं वा गुणलक्षणमिति भावः । संयोगविभागयोरिति द्विवचनलस्यमर्थे स्फुटयति द्वित्व इति । प्रयोजनमाह तेनेति । तयोः प्रत्येकमात्रक रणत्वात् । अनित्यमात्रवृत्ति सत्तासाक्षाव्याव्यज्ञानिमत्त्वं कर्मलक्षणमिति भावः । ननु यत्र सं योगनाशपूर्वकाल एवाश्रयनाशात् कर्म्मनाशस्तत्राव्याप्तिरुभयाज-

न्यायलीलावतीप्रकाशः

प्रागभावप्रध्वंसावपि तद्यवच्छेदौ, न चैवमननुगमः, प्रतियोगितत्प्रागभावप्रध्वंसानामन्यन्ताभावासमानाश्रयत्वेनैवानुगमः । समवायिकारणत्वं द्रव्यत्वं तदवच्छेदकं चोकमेवेन्यप्याहुः । सामान्यवानिति । कर्मावृत्त्यसमवायिकारणवृत्तिजातिमत्त्वं, सामान्य मात्राश्रयकर्मान्यत्वं वा गुणलक्षणम् । द्विश्वे तात्पर्यमिति संयोगविभागयोश्च प्रत्येकं तदसम

न्यायलीलावतीप्रकाश विवृत्तिः

वस्तुतः समवायसम्बन्धनिरूपकत्वमेव सावत्वम्, निरूपकता प्रतियो गित्वानुयोगित्वाभेदान्यतमसम्बन्धेनेति तत्त्वम् । भावत्वाभावत्वादिक मखण्डमेव सामान्यपदार्थान्तर्गनं समवायावरहाज्जातिभिन्नम् इति रत्नकोषकृतः । प्रतियोगितस्प्रागभविति । इदं वैकमिदं सकलप्रतियोगिवृत्यस्तीत्येतावनात्रख्यापनायोक्तमन्यथा गुणाभावाभावत्वस्यैवानुगमकस्य सम्भवादेनदुपन्यासासङ्गतेः । न च प्रतियोगितावच्छेदकत्वेनैतदुपन्यासः तस्यातिप्रसक्केरभावज्ञानजनकी भूतज्ञानागोच रत्वाश्चेति ध्येयम् । समगयिकारणत्वमिति । अत्र द्रव्यत्वं द्रव्यलक्षणमित्यर्थः। उक्त मेवेति । गुणात्यन्ता मावाभाववत्त्वमेवेत्यर्थः । द्रव्यत्वमेव तदवच्छेदकं लाघवादित्यरुचिविभावनमित्यप्याहुरिति । सामान्यवानित्यत्र सामान्यमुपाधिरपीति सामान्यादावतिव्याप्तिरतो व्याचष्टे कर्मेति । अत्र कर्मणि द्रव्ये सामान्ये चातिव्याप्तिवारणाय विशेषणत्रयम् । असमवाधिकारणत्वं च पारिभाषिकं, समवायिकारणभिन्नत्वं वा, आधे


  1. ↑ गासमवायिकारण-मु०पू० पाठः ।