ननु च लक्षणं सकळलक्ष्यवृत्तित्वेन समस्तविपक्षव्यावृत्तत्त्वेन च निश्चितगभ्युपगन्तव्यम्, अन्यथाऽव्य प्रतिव्याप्तर्वाऽलक्षणत्वममङ्गान् । तस्य च प्रयोजनं भेदानुमानं व्यवहारानुमानं
ना ? नायः | भेदानुमानवैयर्थ्यात् । तथा ह्येकजातीयस्थात-
ज्जातीयान्योन्या भात्रविशिष्टत्वानुमानं तेन धर्मेण धर्मिणोऽसाधा-
न्यायलीलावती कण्ठाभरणम्
मग्या जनकत्वात् । न च साध्याप्रसिद्धिः, प्रसिद्धिप्रकाराणां दर्शितत्वात् । न च वक्रोऽयं पन्थाः, वक्ररुचि प्रांत तस्यादोषत्वादिति ।
इदानीं व्यतिरेक विशेषमाक्षिपति नन्विति । अन्यथेति । किञ्चिल्लक्ष्यत्यागेऽव्याप्तिः, अलक्ष्यसत्वेऽतिव्याप्तिः । वैयर्थ्यादिति । गन्धवती पृथिवीति विशेषणमहिम्नैवागन्धवज्जलाद्यन्योन्याभाववत्वस्य विशेष्ये पृथिव्यां सिद्धः विशेषणस्य इतरव्यवच्छेदकत्वस्य सर्वसिद्धत्वादित्यर्थः । वैधर्म्यमन्योन्याभावव्याप्यत्वेन गृहीतं तमर्थमनुमापयेदेवेति चेन्न । स्वार्थानुमाने तथा त्वेऽपि परं प्रति प्रयासानुपपत्तेरिति भावः । एतदेव स्फुटयति तथाहीति । असाधारणव्यवहार इति । गन्ध-
न्यायलीलावतीप्रकाशः
इदानीं लक्षणरूपव्यतिरेकिणमाक्षिपति नन्विति । तस्य चेति । पृथिवत्विादिलक्षणेन किमितरभेदोऽनुमीयते पृथिवीत्र्यवहारो वेत्यर्थः । भेदानुमानेति । भेदो हि न स्वरूपं वैधर्म्य वा साध्यं तयोः सिद्धत्वादिति लक्षणात्मकवैधयेणान्योन्याभावात्मक भेदोऽनुमातव्यः, तत्प्रयोजनं च धर्मिणो व्यावृतधी:, सा चान्यत्रेव प्रकृतेऽपि विशेषणशानाद्विशेध्ये सम्भवतीति व्यर्थ तदनुमानमित्यर्थः । न चानुमितिसामग्यां सत्यामवश्यमनुमितिरिति वाच्यम् । स्वार्थानुमाने तत्सम्भवेऽपि
न्यायलीलावतीप्रकाशविवृतिः
तत्प्रयोजनमिति । तद्रूपं प्रयोजनमित्यर्थः । यद्वा व्यावृत्तधीरित्यस्यैव व्यावृत्तव्यवहार इत्यर्थः । तत्पदेनानुमानपरामर्षाद्ययाक्ष्रुतेऽसङ्गतेः । बिशेषणज्ञानादिति । दण्डवानाद्यथा पुरुषेऽदण्डव्यावृत्तत्वधीस्तद्व्यवहारो वा तथा लक्षणरूपविशेषणज्ञानादपि व्यावृत्तत्वधीस्तव्घवहारो वा स्यादित्यर्थः । नान्त्य इत्यनाभिधातात् पूर्वकल्पान्वयभ्रमो