सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४७
म्यायलीलावतां कण्डारण-विवृतिप्रकाशासिता


रणव्यवहारफलम्[] म च तल्लक्षणविशिष्टतयावोधेनैव[] सिद्धयतीति व्यर्थे तदनुमानम् । ध्यवहारस्तुशब्दयोगात्मा गन्धवती पृथिवीत्युपदेशवलादेव गोजानीयो गौरिनिवद्भविष्यति । असाधारण (संवेदनरूपों) हि व्यवहारोवर्तकधर्मात्मकळक्षणाधिष्ठितत्वगोचरो भविष्यति । हानोपादानलक्षणोऽपि च व्यवहारस्त ज्जातीयस्येष्टानिष्टसाधनलावन्नो [] भविष्यति जलानल-


न्यवलीलावतीकण्ठाभरणम्

वत्त्वेन प्रवृत्तिनिमित्तन पृथिवीपदबाच्योऽयमित्यनुमितिलक्षणव्यवहारप्रवृत्तिरित्यर्थः । अतो न व्यवहार इत्यनेन पोनरुक्त्यं तत्र गन्धवत्त्वस्य उपलक्षणत्वाभिप्रायात् स चेति । व्यवहार इत्यर्थ: । पृथि-

न्यायलीलावतीप्रकाशः

परार्थशब्दप्रयोगवैयर्थ्यान् । नापि विप्रतिपन्नवार्य तत्, यो हि लक्ष णस्येतरभंदे विप्रतिपद्यते स लक्षणस्य विपक्षावृत्तितायामपति लक्षणस्य विपक्षव्यावृत्यनिश्चये कथं विप्रतिपन्नमपि प्रति लक्षणाभिधानम् । किञ्च जलाधेकैकभेदे साध्येऽसाधारण्यम्, मिलितजलादि प्रतियोगिकभेदे च साध्ये साध्याप्रसिद्धिः । न च घटादावेव तत्प्रसिद्धिः, तथासत्यन्वयिन एव तत्सिद्धेरिति भावः । व्यवहारानुमानपक्षं दूषयति व्यवहारस्त्विति । असाधारणति । व्यावृत्तज्ञानस्वरूपो व्यवहारो लक्षणरूपव्यावर्त्तकधर्मज्ञानादन्यत्रेवात्रापि स्यादित्यर्थः इष्टानिष्ठति । तज्ज्ञानमपि तज्जातीयत्वज्ञाननिबन्धनमिति व्यवहारोऽपि न व्यतिरोर्कसाध्य इत्यर्थः ।

 यद्यपि जलादीनां त्रयोदशान्योन्याभावास्त्रयोदशसु प्रसिद्धाः पृथिव्यां साध्यन्ते, अत एवाकाशेऽपि व्यतिरोकणा जलादिमिलितप्रतियोगिकान्योन्याभावाप्रतीतावपि त्रयोदशान्योन्याभावास्त्रयो-

न्यायलीलावतीप्रकाशविवृतिः

मा भूदित्यत आह व्यवहारानुमानपक्षमिति ।


  1. रणव्यवहारप्रवृत्तिः कलमिति मु० पु० पाठः, व्यवहारः फलामति व मिश्रसम्मतः पाठः ।
  2. विशिष्टताबोधेनेति सु० पु० पाठः ।
  3. इत्यानिष्टत्व निबन्धन इति प्रा० पु० पाठः ।