सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीकण्ठाभरणम्

 उच्यते । अस्वस्थ व्याप्तिरन्यस्य पक्षधर्मतोत्यतिप्रसङ्गे प्रतियोरपनुयोगिभाव एव नियामकः : अन एव नोपनयवैयदर्यम्, साध्या भावव्यापकासावप्रतियोगिगत्ताया एवपक्षे उपनयेन दर्शनीयत्वात् । अतएवान्वव्यतिरेकव्याप्न्याऽन्वयव्याप्तेरनुमानाद्वा तत्त्वात्, अनुमिनिर्वैचित्र्यं या कारणवैविध्याधीनम्, अनुमिति सामान्ये पक्षधर्मताज्ञानमेव तन्त्रम् । न चातिप्रलङ्गः, विशेषसामग्रीमादायैव सामान्य सा-

न्यायलीलावतीप्रकाशः

 उच्यते । व्यतिरेकच्यामेरेशन्वये गम्यगमकभावः साध्याभावव्यापकसाधनामावस्याभावेन साधनेन पक्षे साध्याभावाभावस्य साध्यस्य साधनात व्यापकाभावेन व्याप्याभावास्यावश्यभावात् । न चैवं क्लृप्तानुमानहेतुलिङ्गारामभावातज्ज्ञान नानुमितिः, अनुमितिसामान्ये व्याप्तिज्ञानस्य हेतुत्वात् । न चातिप्रसङ्गः, अनुमितिसामान्य सामग्रयां सत्यामपि अनुमितिविशेष सामग्री विरहाद नुमित्यनुत्पत्तेः तदपेक्षाया एवं सामान्य लामचा जनकत्वात् निर्विशेषस्य सामान्यस्याभावान् अन्वयित्र्यतिरेकि सामग्रयोस्तवाभावात् । यद्वा अन्वयव्यतिरे किवत् प्रतियोग्यनुयोगिभावस्य नियामकत्वात् निरुपाधिव्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते इति व्याप्तस्यैव पक्षधर्मत्वमिति संक्षेपः ॥

न्यायलीलावतीप्रकाश विवृतिः

स्तरमाश्रित्येति भावः ।

 अनुमितिसामान्य इति । यद्यप्यन्यनिष्ठव्याप्तिज्ञानस्यान्यत्राजनकतथा व्याप्तिज्ञानत्वमतिप्रसक्तम् तथापि व्यभिचारज्ञानविरोधिव्याप्तिज्ञानमेव सामान्यकारणमित्यभिप्रायः । न चेति । अन्वयानुमितेर्व्यतिरेक्याकारत्वं व्यतिरेक्यनुमितेश्चान्वयाकारत्वं प्रसज्येतेत्यर्थः । एकत्र व्यापकता नवच्छेद करूपेणापरत्र व्याप्याभावत्वेन साध्यप्रतनिस्तयोराकारभेदादिति भावः । अनुमितीति । एकैक विशेषेऽपरापरविशेष समयभावान्नोकप्रसङ्ग इति भावः । अन्वयीति । व्यतिरेक्यन्वयिनोरन्त्रयिव्यतिरे कि विशेष सामग्य भावादित्यर्थः । अन्वयव्यतिरेकवदिति स्त्रमते द्दष्टन्तः । अत्र विकल्पो व्यवस्थया । व्यवस्था च तत्तद्व्याप्तिघटकीभूतपदार्थोपस्थित्येति ध्येयम् ।