न्यायलीलावतीकण्टाभरणम्
किवैयर्थ्यात्, न च साध्यनिश्चयमन्तरेण तव्घतिरेकनिश्चयो येन तदधीनो व्यातिनिश्चयः स्यात्, तद्विशेषानुमितिर्वा स्यात्, अत एव न व्यतिरेक उपायान्तरं येनान्वयिनोऽन्यथासिद्धिः स्यात्, तदुक्तं'ऋजुमार्गेण सिद्ध्यन्तमर्थ को नु वक्रेण साधयेदिति चेत् ।
न्यायलीलावतीप्रकाशः
सम्प्रदायविदस्तु जीवच्छरीरं तवयवों वा आत्मभिन्नत्वे सत्यात्मविशेषगुणकार णभोगानधिकरणावृत्तिसंयोगवत्प्राणान्यत्वे सति ज्ञानकारणप्राणसंयोगवत्वात्, यन्त्रैवं तन्नैवम् । आत्मप्राणसंयोगः प्राणमनः संयोगो वा प्राणशरीर संयोगनै वान्यथासिद्धो न हेतुरित्याहुः ।
ननु केवलव्यतिरेकि नानुमानं व्याप्तस्यापक्षधर्मत्वात् व्यतिरेके व्याप्तिरन्वयस्य पक्षधर्मत्वात् । न च साध्या भावव्यापर्काभूताभावप्रतियोगित्वज्ञानमेवानुमितिहेतु, केवलान्वयिन्यभावात् । न च त्णारणिमणिन्यायेनानुमानविशेषे तद्धेतुः उमयसिद्धानुमितिहेत्वभावेन व्यतिरेकि साध्येऽनुमितित्वासिद्धेः । अथ साध्याभावव्यापकाभावप्रतियोगित्वेन साध्यव्याप्यत्वमनुमेयम्, एवं च व्यतिरेकव्यात्या अन्वयव्याप्त्यनुमाने यत्रानुमितिस्तदेव केवलव्यातरेकीति । तश्न, अन्वयव्याप्तर्गमकत्वे व्यतिरेकव्याप्त्युपन्यासस्यार्थान्तरतापत्तेः । अन्वयव्याप्त्यनुकूलतया च तदुपन्यासे अन्वयव्याप्तिमनुपन्यस्य तदुपन्यासस्याप्राप्तकालत्वम् ।
न्यायलीलावती प्रकाशविवृतिः
जीवच्छरीरमिति । अत्र साध्ये मृतशररिद्वयसंयोगमादाय मृतशरीरे प्रसक्तिवारणाय कारणान्तं विशेषणम् । तत्रापि विशेषपदानुपादाने मृतशरीरावयवात्मसंयोगं मृतशरीरात्मसंयोगजनक मादाय मृतशरीरावयवे प्रसक्तिरिति तत्पदम् । यद्यध्येवं विषयतया ज्ञानजनकं मृतशरीरद्वयसंयोगमादायातिप्रसङ्गतादवस्थ्यम्, तथाप्यात्मविशेषगुणपदेन स्मृतिरुक्तेति नोक्तदोषः । आत्मन्यतिप्रसातवारणाय सत्यन्तम् | हेतौ चात्मनि व्यभिचारो माभूदिति ज्ञानकारणपदम् । घटे व्यभिचारों माभूदिति प्राणपदम् । प्राण एच ब्याभेचारो मा भूदिति सस्यन्तम् । आत्मेति । द्रव्यप्रकाशादौ च तयोः कारणत्वाभिधानं मता-