न्यायलीलावतीकण्ठाभरणम्
अन्यस्य व्याप्तिग्न्यस्य पक्षधर्मता, उपनयवैयर्थ्यं च नहि व्याप्तिः पक्षे उपसंहियते येन तत्सार्थकता स्यात्, किञ्चान्वयव्यतिरेकव्याप्त्योरुभयोरपि गमकत्वेऽननुगमः, न वा साध्यप्रसिद्धिरयुक्तप्रकाराणां संशयादीनां साध्यानिश्चायकत्वात् निक्ष्चायकत्वे वा व्यतिरे
न्यायलीलावतीप्रकाशः
उच्यते । इच्छाश्रयो द्रव्यं पृथिव्याद्यप्रद्रव्यभिन्नमव्यावृत्तिधर्मवस्वादित्य ष्टद्रव्यातिरिक्तद्रव्यसिद्धाविच्छायामष्टद्रव्यभिन्नद्रव्यवृत्तित्वं साध्यम् साध्यप्रसिद्धिश्च द्रव्यत्वे, इच्छाविशेष्यकाढव्यभिन्नद्रव्यबुद्धिश्च केवलव्यतिरोकिसाध्या । न च द्रव्यत्वादेः सपक्षायावृत्तावसाधारणत्वम्, तद्धि सत्प्रतिपक्षोत्थापकतया दोषावहं, प्रकृते च न हेतोः माध्याभावसाधक्रत्वं विपक्षे बाधकाभावात् साध्य माधके च तत्सत्त्वात् । एतेन केवलव्यतिरेकि नानुमानं सर्वत्र प्रमेयत्वादिना सत्प्रतिपक्षग्रस्तत्वादित्यपास्तम् । विपक्षबाधकेन व्यतिरेकिणो बलचत्वात् । सात्मकत्वानुमानं चेत्यम् - इच्छाइसमवायिकारणसिद्धाविच्छात्वं संयोगासमवायिकारणकवृत्ति नित्येन्द्रियग्राह्यविशेषगुणवृत्तिगुणत्व साक्षाद्याव्यजातित्वात् शब्दत्ववत् । अत्र स्नेहत्वव्यावर्त्तनार्थं नित्येन्द्रियग्राह्यत्वम् । आत्मैकत्वव्यावर्त्तनार्थं विशेषगुणेति । शब्दजन्ये शब्दे शब्दप्रयोज्यजातिव्यावृत्यर्थं साक्षाव्घाप्योति विशेषणम् । स चासमचायिकरणं संयोगः किञ्चिवच्छिन्नः संयोगत्वात् । आत्मसंयोगमात्रस्येच्छाजनकत्वेऽतिप्रसङ्गादितीच्छासमवायिकरणसंयोगावच्छेदकत्वं जीवच्छरीरस्य साध्यते ।
न्यायलीलावतीप्रकाशविकृतिः
साध्यप्रसिद्धिरिति । इदं च द्रव्यत्वाश्रयाश्रितेति सामान्यतो दृष्टावतारे । यदि तु द्रव्याश्रितेत्येव तदवतारस्तदेच्छायामेव प्रसिद्धिः, द्रव्यत्वे साध्यतावच्छेदकावच्छिन्न प्रसिद्धेरभावादित्यवधेयम् । अत एवाग्रे इच्छाविशेष्यकेत्युक्तम् । आत्मैकत्वेति । आत्मैकत्ववृत्तिसंख्याव्यावर्त्तनार्थमित्यर्थः । स चेति । स च संयोगः किञ्चि दवच्छिष्टः सन्नसमवायिकरणामेत्यन्वयः, तेनाग्रेतनविपक्षबाधकं घटते सात्मकत्वं जीवच्छरीर इति समान संवित्संवेद्यतयाऽधिकरणविशेषनरपेक्ष्यण सामान्यतस्तत्प्रसिद्धेरिति भावः ।