सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४२
न्यायललावर्ता


व्यतिरेकवेयवान । किन्त्वेतन्न सर्वव्यतिरेकिसमाधानम् ।

न्यायलीलावतीकण्ठाभरणम्

इतरभिनेत्यादौ नायं प्रकार इत्याह किन्विति ।

 ननु साध्यप्रसिद्धिमात्रं समाहितं न तु वैषम्यादिकमपि, तथाहि

न्यायलीलावतीप्रकाशः

शयस्य निश्चय कार्यकरत्वं, साध्यनिश्चयं विना तद्व्यतिरेकनिश्चयम्ललतर्कस्याप्यनवतारात्, अन्यथाऽष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वनिरूपणे लर्कोदयः तर्कोदये च तत्सहकृतसाध्यसंशयस्य साध्यव्यतिरेकनिश्चायकत्वमित्यन्योन्याश्रयात् । न च संशयजन्यस्मृतेर्निश्चयत्वं, संशयस्य संस्काराजनकतया स्मृत्यजनकत्वात्, जनकत्वे स्मृतेरपि कोटिद्वयालम्वनत्वेन संशयरूपत्वात् स्वार्थानुमाने विप्रतिपत्तिवाक्याभावादुक्तसामग्यप्रसिद्धेः । अतएव विप्रतिपत्तिरूपाद्वादिवाक्यादाकांक्षादिमतोऽपूर्वार्थप्रतिपादकात्साध्य प्रसिद्धिरित्यपास्तम् । वादिवाक्यस्य संशायकत्वेनानिश्चयकत्वाच्च ।

न्यायलीलावती प्रकाशविवृत्तिः

तिरेकानश्चयाभावेऽपि अन्यत्र व्यतिरेकनिश्चये बाधकाभावस्तथापि क्वचिदपि निश्चयाप्रसिद्धौ योग्यानुपलब्धिरभावग्रहिका न सम्भ वति इत्यत्र तात्पर्यम् । वस्तुतस्तु संशयोपस्थितमपि तदेवमिति निषिध्यते यत्संशये कोटित्वेन विषयो न तु यद्विषये संशय तत्पर्याप्तिस्तदपि, तस्यात्यन्तासत्तुल्यत्वादन्यथा शशो विपाणं नवेति संशयोपस्थितशशविषाणनिषेधापत्तेः । प्रकृते च न साध्यकोटिकः संशयस्तदप्रसिद्धे, किन्तु पर्यालोचनया साध्योपस्थितिरिति भावः । संशयस्य संस्काराजनकतयेति । यद्यपि विशिष्टज्ञानत्वमेव लाघवात्संस्कारजनकतावच्छेदकं, तथापि विरोधिज्ञानस्यापि विरोधिसंसंस्कारत्व प्रतिबन्धकत्वमन्यथा भावज्ञानाव्यवहितप्रतियोग्यारोपस्यापि संस्कारजनकत्वे तथास्मरणापत्तेरित्यभिप्रायेणेदम् । यथाश्रुतमभिप्रेत्याह स्वार्थानुमान इति । वादिवाक्यस्येति । यद्यपि वाक्यस्य न संशायकत्वं तथाप्यनाप्तोक्तत्वशङ्कथा निर्णयाजनकत्वे पदार्थोपस्थापकतय संशयप्रयोजनकत्वं तस्येति मन्तव्यम् ।