सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ७४१  यदि वेच्छादिसमवायिकारण मात्रस्याद्रव्यानात्मकत्वे तैस्तैग्नुमानैर्निश्चिते तत्संबन्धित्वं जीवद्देहस्य साध्यते । न चैवममसिद्धविशेषणत्वम् । अनुमानेन विशेषणस्य निश्चितत्वात् । न च [] व्यतिरेकिवैयर्थ्यम् । तेन सह जीवच्छरीरसंबन्धस्य

न्यायलीलावतीकण्ठाभरणम्

 सात्मकत्वानुमानमधिकृत्याह यदि वेति । पूर्वोक्तविप्रतिपत्त्युपस्थितलाध्यमपेक्ष्य विकल्पः । नैस्तैरिति । गुणत्वध्वंसान्य कार्थत्वादिभिरित्यर्थः । जीवच्छगर्रमिच्छा जमवायिकारणद्रव्यवत् प्राणादिमत्त्वात् यन्त्रैवं तन्नैवं यथा घटादिरिति व्यतिरेकीति भावः । अनुमानेन-ला. मान्यतोदृष्टेन विशेषणप्रसिद्धिरित्याह अनुमानेनेति । ननु सामान्यतोहप्रैनैव इच्छालमवायिकारणं चंत् सिद्धं कि व्यतिरेकिणेत्यत आह - नचैवमिति । तेनेति । इच्छासमवायिकारणेनेत्यर्थः । पृथिवी

न्यायलीलावती प्रकाशः

 सात्मकत्वानुमाने साध्यप्रसिध्यर्थमाह यदि वेच्छेति । बाधकबलादिच्छासमवायिकारणस्य पृथिव्याद्यष्टद्रव्याद्यनात्मकत्वे प्रमिते जीवच्छरीरं पृथिव्याद्यष्टद्रव्यभिन्नेच्छा लमवायिकारणवादेच्छावत्त्वादिति साध्याप्रसिद्धिर्नेत्यर्थः । ननु लात्मकत्वं शरीरवृत्ति तत्र बाधकाभावाच्छरीरत्ववदित्यन्वयिनैव साध्यसिद्धेः किं व्यतिरेरोकणेत्याशङ्कय निराकरोति न चेति । शरीरं सात्मकमिति शरीरविशेष्यबुद्धेर्व्यतिरेकिणं विनाऽनुपपत्ते रित्यर्थः ।

 ननु संशयेन साध्यप्रसिद्धावपि न तव्द्यतिरेकादिनिश्चयः संभवति साध्यतड्यतिरेकव्याप्तिनिश्चययोः साध्यनिश्चयसाध्यत्वात् साभ्यसंशये तव्द्यतिरेक संशय स्यावश्यकत्वाच्च । न च तर्कसाचिव्यात्सं-

न्यायलीलावती प्रकाश विवृतिः

 जीवच्छरीरमिति । भिन्नान्तं विशेषणं ताद्रूप्यसिद्धये । ननु सात्मकत्वमिति । यद्यप्य स्त्वित्यादिनैवेयं शङ्का निराकृता तथापि सर्वत्रान्वयसम्भवादुपायत्वमेव व्यतिरेकिणो नेत्यभिमानः । परस्य तुक्तानुमानेनैव जीवद्देहसम्बन्धस्यावगतेः समाधानं तुच्छमिति पूरयति शरीरमिति ।

 साध्य संशये तब्यतिरेकेति । यद्यपि यत्राधिकरणसंशयस्तत्र व्य-


  1. नचैवमिति मिश्रसंमतोऽत्र पाठो बोध्यः ।