यद्वा सामान्यतोदृष्टानुमितद्रव्याश्रितत्वादिना [१]व्यनिरंकव्याप्तिनिश्चयेऽष्टद्रव्यातिरिक्तद्रव्याश्रितत्वविशेषनिरूपणमष्टद्रव्याक्ष्रिनन्वे कसाचिव्याद् गुणत्वस्य एवंभूतरूपाभांव[२] स्वप्रसिद्ध विशेषणत्वम् । एवंसति सामान्यतोऽन्वयव्याप्तेरेव विशेषनिरूपणमस्त्विति चेत् । अस्तु [३]
उपायस्यानु
पायतोपाळंभाय, न तु नानात्वम् ।
न्यायलीलावतीकण्ठाभरणम्
संशयाद प्युपस्थितमत आह—यद्वेति । द्रव्यत्वादिनेत्यादिपदात् कचिदाश्रितत्वसङ्ग्रहः । व्यतिरेकव्याप्तिनिश्चय इति । व्यतिरेकव्याप्तिनिश्चयार्थमित्यर्थः । 'चर्म्माणि द्वीपिनं हन्ति' इतिवत् । ननु गुणत्वादेव कथमयमर्थः सिध्येदित्यत आह - अटद्रव्याश्रितत्व इति । नन्वत्रापि अप्रसिद्धविशेषणत्वप्रवादः किन्निबन्धन इत्यत आह--एवंरूपेति । बाधानवतारदशायामप्रसिद्ध विशेष णत्वमित्यर्थः । एवं सतीति । सामान्यतोदृष्टादितरबाधकसहकृतो व्यतिरेकसाध्योऽर्थश्चेत् सिद्धः किं व्यतिरेकिणेत्यर्थः । एवमिति । उपायान्तरे उपायान्तरं नोपालम्भो न दूषणमित्यर्थः । यन्मतेऽष्टद्रव्या तिरिक्तद्रव्याश्रितत्वं न प्रकारः सामान्यतोदृष्टे तन्मते प्रकारार्थ व्यरेकति भावः । यद्वा अष्टद्रव्याश्रितत्वं यत्र पक्षविशेषणतया सामान्यतोदृष्टे यदि नोपादीयते तदा व्यतिरेकी सावकाश इति भावः ।
न्यायलीलावतीप्रकाशः
प्तिग्रह: सुकर इत्याह यद्वा सामान्यत इति । द्रव्याश्रितत्वादिनेत्यादिशब्दात्केवलव्यतिरेक्यन्तरोपजीव्य सामान्यतोदृष्टपरिग्रहः न चैवं किं केवलब्यतिरेकिरणा बाधकसहक्कृतात्सामान्यतोदृष्टादेव तत्साध्यसिद्धेरित्याह एवं सतीति । व्यतिरेकिणोऽप्यन्यत्र सामर्थ्यावधारणेनोपायस्यानुपायतोपालम्भाय न तूपायान्तरमिति केवलव्यतिरक्युपन्यासो न पर्यनुयोज्य इत्याह अस्त्विति । यथा च केवलव्यतिरोकिस्थलेऽप्यनुमितिसामग्री तथोपरिष्टाद्वक्ष्यते