सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३९
न्यायलीलावतीकण्ठाभरण-मविवृतिप्रकाशोद्भासिता


गोचरस्मृतिजनकत्वं वा संभावितम्य च विशेषणस्य पक्षाप्रसिद्ध विशेषणत्वनिरासहेतृत्वात् प्रतिवन्धवांधगोचरव्यातरंकानिरूपकत्वाच्च ।

 यदि वा सामान्यतो निश्चितत्वेनोक्तचोघ[] निरासात् । यद्विपर्यय समीहितप्रमक्तिः प्रसरति तन्मानप्रवृत्तियोग्यमवधारितं विमनिपत्तिवाक्याच्छङ्कातोऽपि वा प्रतीयमानम् इदं च तथेति सामान्यतो ऽनुमानप्रवृत्तिगांचरत्वे विशेष []प्रमाणापेक्षायां व्यतिरेकिण उपन्यासात् । न्यायलीलावतीकण्ठाभरणम् वैशेषिकमते विप्रतिपत्तिर्न संशायिकेति भावः । असाधारणधर्मस्यैव तन्मतेऽनध्यवसायजनकत्वेन संशया हेतुत्वात् । नन्वेवमपि अष्टद्रव्यातिरिक्तद्वन्याश्रितत्वं यत् साध्यं तन्न

न्यायलीलावतीप्रकाशः

साध्यप्रसिद्धौ नापक्षधर्मत्वं न वा व्यातेरेकव्याप्त्य सिद्धिरित्युपसंहरन्नाह सम्भावितस्य चेति ।

 प्रकारान्तरमाह यदि वेति । अटद्रव्यातिरिक्तद्रव्याश्रितत्वं सन्देहादुपस्थितं तत्र च प्रतिकूलतर्कसाचिव्यात्सामान्यतः प्रमाणाप्रवृत्तियोग्यत्वे ऽवधृते विशेषजिज्ञासायां व्यतिरेकिण उपन्यास इत्यर्थः । तदेव स्फुटयति यद्विपर्यय इति ।

 यद्वा इच्छा द्रव्याश्रिता गुणत्वादिति सामान्यतोदृष्टेन द्वव्याश्रितत्वे निश्चित पृथिव्यादिवृत्तित्वे च बाधकावतारे द्रव्याश्रितेच्छा अष्टद्रव्यातिरिक्तद्रव्याश्रिता तद्वृत्तौ बाधकवत्त्वे गुणत्वात् यन्नैवं तत्तद्वृत्तौ न बाधकवद्यथा रूपमिति व्या

न्यायलीलावतीप्रकाश विवृतिः

 यद्वा इच्छा द्रव्याश्रितेत्यादि । एवञ्च मूले द्रव्याश्रितत्वादिनेति तृतीया पक्षतावच्छेदकत्वेन तस्योपयोगितया व्यतिरेकव्याप्तिनिश्चय इत्यत्राष्टद्रव्यातिरिक्ताश्रितत्वसाध्येनेति शेष इति विभावनयिम् ।


  1. देश्यनिरासादिति प्रा० पु० पाठः ।
  2. विशेषे इति प्रा० पु० पाठः ।