त्र्यायतिरेकी साधयनीति चेन्न। शशविषाणादिमत्त्वसाधनापत्तेः । दृश्यानुपलब्धिवाधिनत्वेन शरीरस्य शशविषाणादिमत्त्वासाघनं नत्वप्रसिद्धविशेषणत्वेनेति चेत् । न । अतीन्द्रिय [शृङ्ग] संसर्गाचातुमानापत्तेः [१] । साध्यविशेषणा सिद्धौ तव्घतिरेकनिरूपणायो गात्माध्यसाधनयोतिरेकव्याप्तेरसिद्धेः । न ह्यात्माप्रतीतौ निरात्मको घट इति शक्यं वक्तुम् [२] । नैरात्म्यं न च घटस्य प्रत्यक्षबेघं, तस्य तत्रासामर्थ्यात् । नानुमानगम्यं, कचिदपि नैरात्म्या-
न्यायलीलावत'कण्ठाभरणम्
नत्वप्रसिदया विषाणस्य प्रसिद्धत्वादित्याह दृश्येति । योग्यं विषाणविषाणं बाधात् मा लिध्येत् अयोग्यं तु सिध्येदेवेत्याह नेति । दोषान्तरमाह साध्येति । साध्योऽत्र पक्षः, साध्यं च तद्विशेषणं चेति । वाद्यशक्यत्वमेवोपपादयेति नैरात्म्यं चेति । तत्रेति । चक्षुरादीनां तत्रा-
न्यायलीलावतीप्रकाशः
शशविषाणेति । यद्यप्रततिं सात्मकत्वं साध्यते तदा शराक्ष्टङ्गमप्रतीतमनुमीयेत्यर्थः । ननु शरीरे विषाणं साध्यते तच्च नाप्रसिद्धं येन प्रतिबन्दि स्यात्, किन्तु योग्यानुपलम्मवाधान्न साध्यत इत्याह दृश्यानुपलब्धीति । तथाप्यप्रसिद्धं शशविषाणाख्यमतीन्द्रियं साध्येतैध तस्यायोग्यतया बाघामावादित्याह अतीन्द्रियेति । इन्द्रियजन्यं दर्शनं ज्ञानमिन्द्रियदर्शनं तदतिक्रान्तमतीन्द्रियतया दर्शनमतीन्द्रियमित्यर्थः । साध्याप्रसिद्धौ दूषणान्तरमाह साध्यविशेपणेति । अशक्यत्वमेवोपपा दयति नैरात्म्यं चेति । तस्य तत्रेति । प्रतियोग्यप्रसिद्ध्या तदभावस्या-
न्यायलीलावतीप्रकाशविवृतिः
शरीरेऽसम्भववारणायाह शरीरात्मसंयोगस्येति । कार्यपदव्यावर्त्त्यमाह आत्ममनसोरिति । पक्षसंसर्गमप्रसिद्धमेव साघयतत्यिनन्तरं व्यतिरेकीति शेषः । यद्यप्रतीतमिति । अनुमितिश्च तन्मते साध्यविशेषिकैबेति भावः । प्रतियोग्यप्रसिद्ध्यति । यद्यपि सात्मकत्त्रप्रतीतेरपि प्रतियोग्यधिकरणयोरे केन्द्रियप्राह्यत्वात् प्रत्यक्षस्य तत्रासामर्थ्यादिति