प्रतीतावन्चयिनो लिङ्गस्याभावान् । व्यतिरेकिणस्तु सात्मकत्वप्रतीर्ति विनाऽनुपपत्तेः एकपदार्थवृत्तिता चेच्छादिमवादिनाऽसाधारणधर्मेण प्रतीतपदार्थानुमाने घटादावण्यसाधारणकलशन्वादिधर्मोपळम्भेन स्वेच्छा कल्पिततत्तदसाधारणधर्मवत्त्वानुमानप्रगङ्गान । सामान्यतोदृष्टानुमित मिच्छादिसमवायिकारणं
नव्घतिरेकश्वेच्छादि कार्यनिवृत्या घटादौ प्रतीतः, तत्संवर्गस्तु देहे
साध्यत इति चेन् । न । तस्य कार्यात्कारणमात्रानुमानादेव-
न्यायलीलावतीकण्ठाभरणम्
सामर्थ्यात् मनसः बहिरप्रवृत्तरित्यर्थः । अनभिमतप्रसङ्गादपि न व्यतिरेक्यनुमानमित्याह एकोति । नन्विच्छा क्वचिदश्रिता कार्य्यत्वादिति यदिच्छासमवायिकारणमनुमितं तद्व्यतिरेको घटादौ सुग्रह एवेति न कथं व्यतिरेकनिरूपणमित्याह सामान्यत इति । शरीरमिच्छाकारणवत् इच्छावत्त्वात् यद्यत् कार्य्यवत् तत्तत्कारणवदित्यन्वयिन एव तत्सिद्धर्व्यतिरेक वैयर्थ्यमित्याह नेति । विशिष्य इच्छासमवायिकारणापरिचयेऽपि साध्याप्रसिद्धेरेवेति भावः । विशिष्टे तु
न्यायलीलावतीप्रकाशः
प्रतीतेरित्यर्थः । व्याप्त्यप्रतीतावण्यप्रतीत साधने दोषमाइ एकपदार्थ वृत्तिना चेति । तद्यतिरेक-इच्छासमवायिकारणत्र्यतिरेकः, इच्छादे का र्यं चेष्टारूपं तव्घावृत्त्या घटादौ प्रतीत इत्यर्थः । तस्येति । तस्य- इच्छासमवायिकारणमात्रस्य, शरीरमिच्छासमवायिकारणवत् इच्छारूप कार्यवत्त्वात् यद्यत्कार्यवत् तत्तत्कारणवदित्येवरूपानुमानादेव सिद्धेर्व्यतिरेक वैयर्थ्यमित्यर्थः वस्तुतोऽत्रापि साध्याप्रसिद्धिरिति भावः ।
न्यायलीलावतीकण्ठाभरणम्
मूलार्थः प्रतिभाति, तथाप्युपनी ते प्यधिकरणेऽभावः प्रत्यक्षेण गृह्यतां एवेति मनसैव तद्ग्रग्रहः स्यादिति तन्मतं परित्यज्य प्रतियोग्यप्रसिद्धि परतयैव व्याख्यातवान् । इच्छदिनिवृत्तिरप्यतीन्द्रियैवेति कर्मधारयं परित्यज्य षष्ठीसमासमालम्बते इच्छादेरिति । वस्तुत इति । यत्त्वतत्त्वयोरनुगतयोरभावादिति भावः | साध्यापेक्षया - साध्यप्रत्ययापेक्षया ।