प्रतीतं न वा ? न चेद [प्र] सिद्धविशेषण: पक्षः । ग्रतीतं चेत्, यत्र
तत्प्रतीतं तत्र हेतोवृत्तिर्व्यावृत्तिर्वा ? वृतिक्ष्चेन्वयव्य निरोकिन्वम्,
व्यावृत्तिक्ष्चेदसाघारगानैकान्तिकता | अनध्यवमिती वा] [१] । अप्र
सिद्ध माध्यसंसर्गमिव माध्यविशेषणमध्यप्रसिद्धमेव स्त्रशक्तिवैचि-
न्यायलीलावतीकण्टाभरणम्
वत्त्वादित्यर्थः । एवं व्यतिरेकेऽप्यूह्यन । पक्षविशेषणस्य - साध्यस्य । नचेदिति । तथाच पक्षलाध्यविशिष्टप्रतीतिरनुमितिर्न स्थादित्यर्थः । विशेषणज्ञानाद्यपेक्षत्वात् विशिष्टवनीतेरिति भावः । तत्र-प्रसिद्धसाध्यवति असाधारणत्वमिति । सति सपक्षे सपक्षायावृत्तो हेतुर साधारण इत्यर्थः । व्यतिरेकानुमानमहिम्नैवाप्रसिद्धं साध्यं सेतस्यतीत्याह अप्रसिद्धमिति । ननु बाघात विषाणं शरीरे न सिध्यति
न्यायलीलावतीप्रकाश:
स्य विशेषणं साध्यमित्यर्थः । अप्रसिद्धेति । तथाच पक्षविशेष्यिका साध्यविशेषणिकाऽनुमितिर्न स्पाद्विशेषणज्ञानं विना विशिष्टज्ञानाभावादिति भावः । यदीच्छा समवायिकारणजन्या कार्यत्वात् तच्च स मवायिकारणं पृथिव्याद्यष्टभिन्नं पृथिव्यादित्वें बाधकत्वादिति पृथि व्यादिभिन्नात्मसिद्धौ तद्वत्वं जीवच्छरीरे साध्यते, तदा घटादौ तद स्तीति ततो हेतुव्यावृतावसावारण्यं स्यादिति ज्ञानसमानाधिकरणज्ञानकारणीभूत संयोगाश्रय कार्यत्वं सात्मकत्वम्, शरीरात्मसंयोगस्थ ज्ञानकारणत्वात्, आत्ममन सोस्त थात्वेप्य कार्यत्वात्, तञ्च शरीरादन्य त्राप्रसिद्धं शरीरे च सिद्धौ सिद्धसाधनम् । एतेनेच्छाऽसमवायिकाकारणसंयोगावच्छेदकत्वस्याभावो घटादौ दृष्टः तद्यतिरेकः शरीरे साध्यत इत्यपास्तम् । इच्छाऽसमवायिकारण संयोगावच्छेदकत्वस्य शरीरादन्यत्राप्रसिद्धेः । अप्रसिद्धसाध्येति । यथा सिषाधयिषितस्य पक्षसंसर्गमप्रसिद्धमेव साधयति तथा सिषाधयिषितमध्यप्रसिद्धमेव सा घयतीत्यर्थः । स्वशक्तीति । व्यतिरेकव्यातिपक्षधर्मताबलादित्यर्थः ।
न्यायलीलावतीप्रकाशविवृतिः
रणेति चक्षुर्घटसंयोगमादाय घटे प्रसक्तिवारणाय समानाधिकरणान्तम् । घटात्मसंयोगमादाय तत्रैव प्रसक्तिवारणाय ज्ञानकारणीभूतेति ।
- ↑ [ ] चिह्नान्तर्गतः पाठो प्रा० पुस्तके नास्ति । असाधारणत्वम् इति तु मिश्रसंमतः ।