व्यात्तन्वेन पदार्थज्ञानं तत्तज्ञानम्, नच्च वैधर्म्याधीनम् । तदपि
व्यतिरेकिप्रमान [१] मिति तत्परिच्छेदोऽयमारभ्यते । ननु व्यति
रेकी नानुमानम्, जीवच्छरीरं सात्मकं इच्छावत्त्वात्, यन्निरात्मकं
न नदिच्छाप्रत् यथा घटः । इच्छादयोऽष्टद्रव्यातिरिक्तद्रव्याश्रिताः
अष्टद्रव्याश्रितनापतौ[२] गुणत्वान् न यदेवं न तदेवम्,
यथा भुवो रूपमित्यादिकं हि तत् । अत्र च पक्ष[स्य] विशेषणं
न्यायलीलावतीकण्ठाभरणम्
व्यावृ त्तत्वेन -इतर भिन्नत्वेन वैधर्म्याधीनं-तन्मात्रवृत्तिधर्म्माधीनम् | तनूपरिच्छेद इति । तादृशपूर्णपक्षनिरासपरिच्छेद इत्यर्थः । व्यतिरेकानुमानपरिच्छेदो वा । व्यतिरेकी नानुमानमिति । असत्प्रतिपक्षो धर्मो नानुमानमित्यर्थः भागासिद्धिवारणाय जीवदिति । सात्मकत्वं भोगजनकमनःसंयोगाधिकरणकत्वम्, भोगाधारसंयोगाधार संयोगाधिकरणत्वं वा । इच्छावत्वादिति । इच्छाजन्य विशेषगुणजन्यक्रिया-
न्यायलीलावतीप्रकाशः
त्यर्थः । तस्माद साधारणतया सामानाधिकरण्यं संशायकं नतु निश्चायकम् । यद्यपि वशिषिकाणामसाधारणो धर्मो न संशयहेतुस्तथापि न्यायदर्शनमाश्रित्योक्तमिदम्, न्यायनये तु प्रत्यक्ष एव समवाय इत्युपक्रमात् ॥
उत्तरप्रन्थप्रबन्धोपयोगार्थमाह व्यावृत्तत्वेनेति । तदपीति । अपिशब्दः साधर्म्यापेक्षया | पक्षस्येति । सिषाधयिषितसाध्यधर्मणो धर्मिणः पक्ष-
न्यायलीलावतीप्रकाशविवृतिः
यद्वा घटादावेव नित्यतामित्यन्वयः । व्यावृत्ततयेत्यत्र ज्ञानादेरिति शेषः । कचिज्जन्यजलादेरिति पाठः, स तु सुगम एव ।
वैधम्र्म्यातिरिक्तस्य व्यतिरेक्यनुमानत्वेन समुञ्चेयस्याभावादाह अपिशब्द इति । तथाच व्यतिरेकि तदप्यनुमानमिति योजनयाऽनुमानत्वेन साधर्म्यमेव समुञ्चेयं मूल इति भावः । पक्षपदार्थ दर्शयन्नेव साध्यस्य विशेषणत्वमुपपादयति सिषाधियिषितेति । ज्ञानसमानाधिक-