तस्य स्वग्राहकमानमिद्धत्वान । नेतरः । अविष्ठानाभावात् असम्बद्धत्वेऽपि आश्रित वृद्धि जनस्वभावनियमेनैव सामानाधिकरण्यबुद्धिनिवांदकत्वान् । भेदाभेदाभ्यां व्यावृत्तस्य चास्य गन्धवत्त्वस्येव सन्देहापादकत्वान् । अन्यथा भुवोऽपि नित्यानित्यरूपतापत्ते : [१] । इति समवायः ॥
इति श्रीन्यायलीलावत्यां विभागपरिच्छेदः समाप्तः ॥
न्यायलीलावतीकण्ठाभरणम्
रण्योपपत्तरित्यर्थः । अतिरोहितार्थमितरत् । गन्धवत्वस्यैवीत । भूर्नित्या गन्धवत्त्वाहित्ययं हेतुरुभयव्यावृत्तेर्यथा सन्देहापादकस्तथा सामाना धिकरण्यमपीत्यर्थः ।
इति महामहोपाध्यायश्रीशङ्करकृते लीलावतीकण्ठाभरणे विभागपरिच्छेदः समाप्तः ॥
न्यायलीलावतीप्रकाशः
दोष इत्यत आह भेदाभेदाभ्यानिति । यथा भूर्नित्या गन्धवत्वादित्यत्र गन्धवस्त्रमसाधारणं सकलसपक्षविपक्षव्यावृत्तत्वात्तथा सामानाधिकरण्यमपीत्यर्थः । असाधारणानैकान्तिकस्य दूषकताबीजमाह अन्यथेति । यथा गन्धवत्वं व्योमादेर्थ्यावर्त्तमानमनित्यतां साधयेत्तथा जलाइयवृत्ततया नित्यत्वमपीत्यकस्य धर्मिणो विरुद्ध द्वैरुप्यापत्तिरि-
न्यायलीलावती प्रकाशविवृतिः
मिन्नं वेत्यनुमानविशेषणम् । भिन्नाभिन्नमिति कर्मपदमिति ध्येयम् । यथा गन्धवत्वमिति । यद्यप्यसाधारणे विरुद्धद्वैरूप्यापत्तिर्न दूषकताबीजमपि तु संशायकत्वमेव, तथापि विरुद्धद्वैरुप्वापतौ न निश्चायकत्वमतः संशायकत्वमिति परम्परया तस्या अपि दूषकतायामुपयोग इति भावः । वस्तुतो विरुद्धद्वैरूप्यापत्त्याऽनिक्ष्चायकत्वे परम्परानुमितिप्रतिबन्ध एव दूषकताबीजम्, परस्परविरुद्ध व्याप्तिज्ञानत्वेनैव चास्थ प्रतिबन्धकता, नतु पक्षघर्मताज्ञानसाहित्येनेति न सत्प्रतिपक्षाभेद इति विपञ्चितं प्रा गिति । जलोदरीत । अतदुणसंविज्ञानबहुव्रीहिणा जलज्ञानादोरत्यर्थः ।
- ↑ नित्यत्वानित्यत्वापत्तरिति प्रा० पु० पाठः ।