सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३०
न्यायलीलावती


वानु । न द्वितीयः तस्य स्वनोऽनुमानत्वेनानभ्युपगमात् । सामानाधिकरण्यानुपपतिरनुमानमिति चेत् । न, शाब्दसामानाधिकरण्यम्य तत्प्रवृत्तिनिमित्त सामानाधिकरण्यादेवोपपत्तेः, अर्धसामानाधिकरण्यानुभवस्य च धर्मधर्मिणोर भेदाभावेऽपि एकाधिकरगत्वेनैवोपपत्तेः । स्वतन्त्रयोर्द्रत्वशुल्कगुणयोर्द्रव्याद्भेदे सामानाधिकरण्यमनुपपन्न मिति चेन्न समवायवलेन तदुपपत्तेः । स्वतन्त्रः समवायो न तदुपपादयितुं क्षम इति चेत् । किं तस्य स्वातन्त्र्यं ? स्वमहिम्ना पराश्रितबुद्ध्यनजर्कत्वं [१] वा ताभ्यामसम्बद्धत्वं वा ? नाघः । धर्मिण्याक्ष्रितबुद्धिजनकत्वेनैव


न्यायलालावतीकण्ठाभरणम्

दसाघकयोस्तुल्यबलयोरित्यर्थः । सामानाधिकरण्येति । आत्यन्तिको यत्र भेदो गवाश्वादौ यत्र चात्यन्तमभेदस्तदुभयव्यावृत्तं सामानाधिकरण्यमेव भेदाभेवसाधकं नहि भवति गौरश्वो घटोऽघट इत्यर्थः । प्रवृतिनिमित्तति । नीलपदप्रवृत्तिनिमित्तं नीलगुणत्वं घटपदप्रवृत्तिनिमित्तं च घटत्वं तदुभयसामानाधिकरण्यादेव शाब्दसामानाधिक-

न्यायलीलावतीप्रकाशः

शाब्देति । गौः शुक्ल इत्यत्र गोशुक्ल पदयोर्भिन्त्रप्रवृत्तिनिमित्तक योरेकाधिकरणप्रतिपादकत्वं शाब्दसामानाधिकरण्यं, तश्च प्रवृत्तिनिमित्तसामानाधिकरण्यमात्रादेवोपपन्नम्, प्रवृत्तिनिमित्तसामानाधिकरण्यं प्रवृत्तिनिमित्तयोरेकाधिकरणसम्बन्धमात्रम्, आर्थ च सामानाधिकरण्यं भिन्नयोः शब्दप्रतिपाद्ययोरेकाधिकरणवृत्तित्वं धर्मेधर्मिणोदेण्युपप न्नमित्यर्थः । स्वतन्त्रयोरिति । मिथो मिन्नेषु घटपटादिषु तददर्शनादित्यर्थः । समवायेति । घटपटयोस्तु न समवाय सम्बन्ध इत्यर्थः । धर्माणामिति । इह तन्तुषु पट इत्यादिबुद्धिजनकत्वेन समवायसिद्धेरित्यर्थः । ननु यद्यप्याश्रयान्द्भेदाभेद्योर्मिलितयोः साध्यत्वे साध्याप्रसिद्धिः, भेदाभेदयोः प्रत्येकं साध्यत्वे चांशतःसिद्धसाधनं भेदस्योभयसिद्धत्वात्, तथाप्याश्रयाद्भेदं पक्षविशेषणकृत्य तदभिन्नत्वं साधनीयमतो नोक्त्त-


  1. ↑ जनकत्वमात मु०प० पाठः ।