सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


तीनि प्रत्ययगोचरस्य भावस्य अन्योन्याभावविरहे सर्वत्रान्योन्याभावविरप्रसङ्गात्न । अथ (मनम् []गौरिति जाने ज्ञानेऽपि व्यक्तिज्ञानाज्जा निज्ञानेन च गौर्गौरिति व्यवश्यमुकम्भाज्जातिव्यंकरभित्रा व्यक्तिस्तु जानेभिन्नेति भिन्नाभिन्नत्वमनुभवसिद्धमिति चेत् । न । जातिव्यञ्जकत्वेन व्यक्त्तेम्वश्यमुपलम्भो जातिमनीतौ न तु जात्यभेदेन । एका हि जातिरनुभूयते भिन्ना तु व्यक्तिरिति नानुमानम् । तद्धि भिन्नमामन्नं वा भिन्नाभिन्नं माघयेन् । नाद्यः । मत्प्रतिपक्ष [भेद]नापत्तेः । न द्वितीयः । तदन्वयि व्यतिरेकि वा ? नाद्यः । भिन्नाभिन्नत्वस्य कचिदपि दर्शनाभा-


न्यायलीलावतीकण्ठाभरणम्

विषयकप्रतीत्यविषयत्वात् जातिर्व्यत्तयभिन्ना, जात्यविषयकप्रतीतिविषयत्वात व्यक्तिजतिर्भिश्चेति शंकने अथेति व्यत्यविषयकप्रतत्यि विषयत्वमन्यथासिद्धमिति नाभेदे लिङ्गमित्याह जातीति । नानुमानमिति । धर्मधर्म्मिणोर्भेदाभेदसाधकमिति शेषः । तद्धीति | भिन्नमनुमानमनेक भेदसाधकं न परभेदसाधकमित्यर्थः । अभिन्नमिति । एकमेवानुमानं भिन्नाभिन्नत्वन्तु साधयेदित्यर्थः । सत्प्रतिपक्षभेदेति । भेदाभे-

न्यायलीलावतीप्रकाशः

प्रामाणिकत्वादित्यर्थः । जातियक्त्तेरिति । यद्धि यतो भिन्नं तत्तज्ञानेऽपि भालत इत्यर्थः । तदविषयकज्ञानाविषयत्वमन्यथोपपत्रमित्याह जातिव्यजकत्वेनेति । जातिव्यक्त्योर्विरुद्धधर्माध्यासं भेदकमाह एका हीति । नानुमानमिति भेदाभेदसाधकमिति शेषः । तद्धीति । तद्धि प्रमाणं भिन्नं व्य क्त्तित्योर्भेदग्राहकमेकमपरं चाभेदग्राहकमित्यर्थः । सत्प्रतिपक्षतेति । समानबलतया ज्ञायमानेन वोधितसाध्यविपर्ययत्वाद्भेदाभेदसाधकयोरित्यर्थः । सामानाधिकरण्यं शाब्दमार्थे वोभयमप्यन्यथोपपन्नमित्याह

न्यायलीलावतीप्रकाशविवृतिः

वरणमिति । एकमेवानुमानमिति । एवञ्चानुमानाभ्यां वा भेदाभेदसिद्धिरेकेनैव वाऽनुमानेन तत्सिद्धिरिति विकल्पार्थ इति भावः । मूले च


  1. ( ) चिह्नस्थः पाठो मु० पु० नास्ति ।