सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२८
म्यायलीलावती


तु व्यक्तेरभिन्नमेवानुभूनमिति । अथ न भेदेन नाप्य भेदेन किन्तु स्वरूपेणानुभुयत इति मतम् । न । सामान्यस्या [१]नुवृत्ततावभासप्रसङ्गात् । मैवम् । अनेकव्यक्तिसमवायिश्वं दि सामान्यस्यानुवृत्तत्वम् । तेन तदप्रतीतावपि जातिस्वरूपावासोपपत्तेः । यदि भिन्ना जातिः स्यात् व्यक्त्यसम्बद्धापि प्रतीयेतेति चेत् । न । नित्यसम्बन्चवलेनैव तन्निरामात् [२] । अथ समवायरहितत्वमभिन्नत्वम् । तन्न । समवायस्य साधितत्वात् । स्वरूपभेदेऽपि अन्योन्याभावरहितत्वमभिमत्वमिति चेन्न ! इदमिदं न भव-


न्याय लीलावतीकण्ठाभरणम्

कपिण्डासाधारणरूपेण । स्वरूपेणेति । स्वरूपं यदस्या जातित्वं तेनेत्यर्थ: । जातिश्वरूपं भासते न तु तद्धर्म्मानुवृत्तित्वादि रूपेणेत्याह अनेकेति। नित्यसम्बन्धेति । अयुतसिघ्घा न पृथग्भानमित्यर्थः । इदमिदमिति । गोत्वं न व्यक्तिरिति प्रतीतेरन्योन्याभावविषयत्वादित्यर्थः । ब्यक्त्य-

न्यायलीलावती प्रकाशः

यदि जातिर्ब्यर्न्भिन्ना स्यात् तदा व्यावृत्तत्वेन भानं न स्यात् अनु गतधर्मताभावत्वात्तस्या इति व्यावृत्तत्वेन भानार्थ जातिव्यक्त्तमोरभेदो मन्तव्य इत्यर्थः । तथा चाखण्डमेव गौरितिप्रत्ययस्य विषय इति भावः । यदि जातिः स्वरूपेणानुभूयते तर्हि स्वरूपस्यानुवृत्तत्वाज्जातिरपि तथैव भासेत, तच्च न प्रथमतः सम्भवतीत्याह सामान्येति। सामान्य जातेः स्वरूपं प्रथममवभासत एव सामान्यरूपत्वं च समानासु व्यक्तिषु भासमानासु भासत इत्याह अनेकव्यक्तीति । जातिव्यक्त्योरभेदे सति अखण्डमेव भासत इति मनसिकृत्य समवाधनिरूपणप्रस्ताव एवाह यदि मिन्नेति । अथेति । घटपटयोक्ष्च समवाय राहित्येऽपि नाभेदः तयोर्विशेषणावशेष्यभावाभावात् जातिव्यक्त्योश्च तत्साद्भावादिति भावः । समवायस्येति । पूर्वोक्तप्रमाणादित्यर्थः । मनु ज्ञातिव्यत्तयो स्वरूपभेदेप्यन्योन्याभावविरहादभेदः स्यादित्याह स्वरूपभेदपैाति । इदमिदामेति । इदमिदं न भवतीतिप्रतीतिबलादन्योन्याभावस्य


  1. ↑ अनुवृत्तत्वेना नुवृत्ततेति मु० पु० पाठः ।
  2. ↑ तन्नियमादिति मु० पु० पाठः ।