अत्रोच्यते । गोत्ववैशिष्ट्यमेव गोरूपत्वम् । बोशिष्ठ्यं च समवायस्य स्वरूपशक्तिनियमेन [तत्र] [१]गोत्वसम्बन्यावभासजनकत्वम् | तस्य च गोत्वव्यञ्जकरूपस्य प्रत्ययान्तरेषु भेटेन भासमानस्यैका कारत्व मे कषर्माविष्ठानत्वमनुभूयते ।
ननु त सामान्य [२] प्रथमपिण्डोपलम्भकालेऽनुवृत्तत्वेनानुभूयते व्यावृत्तत्वेन वा ? नाद्यः । प्रथममनुवृत्ततानवभासनात् । द्वितीये
न्याय लीलावती कण्ठाभरणम्
तस्य चेति । गोरूपस्य पिण्डस्येत्यर्थः । एकाकारस्य विवरणमेकधर्म्माधिष्ठानत्वमिति ।
अखण्डमसाधारणं गौरितिप्रत्ययगोचर इति पूर्वपक्षिणा यदुक्त्तं तदेवोपपादयितुं शंकते नन्विति । अनुवृत्तत्वेन नानावृत्तिनिष्ठत्वेन ए-
न्यायलीलावतीप्रकाश:
यद्वाधकबलेन गौरितिप्रत्ययस्य समधायो न विषयस्तन्निराकरणायाह गोत्ववैशिष्टयंमिति । वैशिष्टयं चेति । यघप्येकः समवायस्तथाप्यधिकरणस्वभावाद्यत्र गोत्वमस्ति तत्र गौरिति प्रत्ययो, यत्र तु तदत्यन्ताभावस्तत्र नेति समवायस्वभाव इति नोकदोष इत्यर्थः । अत एव गोरिव गोत्वसमवाययोरपि गोत्वसम्बन्धावभासजनकत्वादतिव्याप्तिरित्यपास्तम् । तस्य चेति । गोत्वब्यञ्जकपिण्डमात्रस्य एकाकारत्वस्य, विवरणमेकधर्माधिष्ठानत्वमिति । एकधर्माश्रितत्वमित्यर्थः । अतोऽनासादितेत्यादि यदुक्तं तन्नेति भावः ।
प्रथममिति । अनुवृत्तत्व मे कव्यक्तिवृत्तित्वे सत्यपव्यक्तिवृत्तित्वमपरव्यक्तिवृत्तिताज्ञानं विना ज्ञातुमशक्यमित्यर्थः । द्वितीये त्विति ।
न्यायलीलावतीप्रकाशविवृतिः
न्धितया च न जातिरूपमित्यतिरिक्तमेवेति भावः । यत्र गोत्वमस्तीति । यत्र विशेषणतायां विशिष्टबुद्धिजनकत्वं नियामकम्, जनकतायां च स्वभाव एव शरणमिति भावः । अतिव्याप्तिरिति । गौरितिप्रत्ययप्रसङ्ग इत्यर्थः । एकत्वभ्रमं निवारयति पिण्डमात्रस्येति । पौनरुक्त्यमपाकरोति वि-