सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१२
न्यायलीलावती


समवायिकारणवत्त्वे (न) भावत्वापत्तेः । विशिष्टव्यवहारस्तु विशिष्टव्यपदेशः । कस्तस्य विषयः ? विशेषण विशेष्यस्वरूपम् । कुतस्तर्हि तयोः सम्बन्धावभासः ? विशेषणविशेष्यपदवाचकपदसन्निधानादारोपित सम्बन्धगोचरः । कुतः पुनरनारोपितसम्बन्बगोचरो न स्यात् ? समवायस्याप्रतीते: तदितरस्या [] भावात् । वि-


न्याय लीलावती कण्ठा भरणम्

विशिष्टेति । कुतस्तहीति । त्रिशेषणावशेष्यभानमेवंसति स्यान्न तु सम्बन्धमानमित्यर्थः । बुद्धिविशेषणविशेध्ययोर्ग्रह वैशिष्ट्यारोप्यत इत्यर्थः। कुतः पुनरिति । वास्तव एव सम्बन्धः कथं न तद्विषय इत्यर्थः । समवाय स्येति । अतीन्द्रियत्वात्तस्येत्यर्थः ननु वैशिष्ट्यमेव प्रतीयमानं तत्र सम्बन्धः स्यादित्यन आह अन्यस्यति । वैशिष्ट्यस्य भावाभावसाधारण्यं चेत्तदा तदेकमनेक वा ? यद्येकं तदा स्वास्मनंं स्ववैशिष्ट्यप्रत्ययं न कुर्य्यादनेकत्वे त्वानन्त्यमित्यर्थः । समवायबन्दीग्रहस्तु सिद्ध्यसि द्धिपराहतः, प्रामाण्यप्राधान्यं चाननुगतमित्याह - विशेषणत्वमिति ।

न्यायलीलावतीप्रकाशः

ज्ञानं, तथाचानुभवबलादेव सम्बन्धः सिध्धेदित्यत आह विशिष्टेति । तथापि तत्कारणत्वेन विशिष्टविषयकं ज्ञानं सिघ्घेदित्यत आइ कस्तस्येति । नन्विमौ विशिष्टावित्युक्तेऽस्येदं विशेषणमिदं चास्य विशेष्यमिति भासते, तथावानुभववलादेव सम्बन्धसिद्धेः क्कानुमेयतेत्यत आइ कुतस्तहीति । आरोपितेति । यथार्थानुभवाद्वस्तुसिद्धिरिति भावः ।

न्यायलीलावतीप्रकाशाववृतिः

समवेतत्वेन सकलाभावसाधारणं भावत्वापादनं, तथापि समवायित्वेन जन्यभावत्वेन कारणकार्यभावात्मकप्रतीत्यर्थं कारणत्वग्रहणम् । अस्येदमिति । अत्र षष्ठयर्थोऽनुभवविषयः स एव सम्बन्ध इति भावः । यथार्थानुभवादिति । यद्यप्यारोपितत्वेऽपि समवायस्य तत्सिद्धिरप्रत्यूहा, तथाप्यलीक एव सम्बन्धः प्रतीतिविषयः, संयोगादिकमेव वारोग्यमिति मूलार्थ इति भावः । ननु भासमानसम्बन्धानुयोगित्वं प्राधान्य तत्प्रतियोकित्वं चाप्राधान्यमिति तदनुभवबलादेय सम्बन्धसिद्धि-


  1. अन्यस्येति-मिश्राभिमतोत्र पाठः ।